Enter your Email Address to subscribe to our newsletters
पंचायतानि आर्थिकम् आत्मनिर्भरं निर्मातुं पारदर्शिता, तकनीक- स्थानीय संसाधनानाम् उपयोगे बलम्
लखनऊ, 14 अक्टूबरमासः (हि.स.)।
मुख्यमंत्री योगी आदित्यनाथेन ग्रामपञ्चायतानाम् आर्थिकस्वावलम्बनस्य उद्देश्येन नवनवीनप्रयत्नान् प्रोत्साहयितुं बलं दत्तम्। मङ्गलवारे पंचायतीराजविभागस्य समीक्षासभायाम् मुख्यमंत्री उक्तवन्तः यत्—“पञ्चायताः केवलं प्रशासनिकएककाः न सन्ति, अपितु ग्रामविकासस्य आत्मा एव।” एतेषां स्वावलम्बनार्थं पारदर्शिता, तन्त्रज्ञानस्य प्रयोगः, स्थानिकसंसाधनानां च सदुपयोगः विशेषतया करणीयः।
सभायां प्रस्तुतविवरणानुसारं पञ्चायतानां स्वनिधिवृद्धये विविधाः सुधारात्मकाः उपायाः क्रियमाणाः सन्ति। स्थानीयकरसङ्ग्रहः, उपयोगशुल्कसङ्ग्रहः च ऑनलाइन रूपेण कृतः। पञ्चायतानां आयवृद्ध्यर्थं विविधनवाचाराः अपि प्रचलिताः। मुख्यमंत्री अवदन् यत्“पारदर्शितया तन्त्रज्ञानस्य च प्रयोगेण ग्रामपञ्चायतानां राजस्वप्राप्तिः जनसेवाया गुणवत्ताश्च उभे अपि सुनिश्चिते स्तः।”
तेन एतदपि उक्तम् यत् विकासप्राधिकरणेभ्यः अतिरिक्तेषु क्षेत्रेषु यानि भवनमानचित्रस्वीकृत्यर्थं जिला-पञ्चायताधीनानि सन्ति, तत्र दक्षमानवसंसाधनस्य उपलब्धिः आवश्यकाऽस्ति। अतः प्रतिजिलापञ्चायते सिविल अभियन्ता वा वास्तुविशारदस्य नियोजनव्यवस्था क्रियते, येन स्थानिकनिर्माणकार्येषु गुणवत्ता पारदर्शिता च सुनिश्चितेते।
मुख्यमंत्रीना ग्रामपञ्चायतानां आयवृद्ध्यर्थं ग्रामसचिवालयेषु आधारकेन्द्राणि स्थापयितुं निर्देशः दत्तः। ते अवदन्—“आधारपत्रनिर्माणम्, संशोधनम्, जैवमेट्रिकसुधारः इत्यादिकर्मसु एषा सुविधा प्रदेयाऽस्तु। एतस्मात् शुल्करूपेण ग्रामपञ्चायतानाम् आयवृद्धिरपि भविष्यति।”
सभायाम् अपि उक्तं यत् पंचायतीराजविभागेन तालाबानां पोखराणां च सूचीकरणं उपयोगनीतिश्च प्रचलिता अस्ति। मुख्यमंत्रीना निर्देशः दत्तः यत् ग्रामपञ्चायत-जिलापञ्चायताधीनतालाबानां पोखराणां च समयबद्धपट्टं दीयताम्। तेषां प्राप्तराशिः “हर घर नल”, जलसंरक्षणं ग्रामहितकार्याणि च एव उपयोग्याः स्युः। तस्मै स्पष्टनियमावलीं निर्मातुं अपि आदेशः कृतः।
मुख्यमंत्री अवदन्—“यावत् ग्रामपञ्चायतानां स्ववित्तीयशक्तिः वर्धते, तावत् शीघ्रं ग्रामविकासकार्यम् अग्रे सरति।” अधिकारीन् प्रति आदेशः अपि दत्तः यत् पंचायतप्रतिनिधिभ्यः वित्तीयव्यवस्थापनं, डिजिटलसेवावितरणं, जनसुविधासंचालनं च विषयेषु प्रशिक्षणं दीयताम्।
अन्ते मुख्यमंत्रीना उक्तं—
“ग्रामपञ्चायतानां समृद्धिरेव आत्मनिर्भरभारतस्य आधारः। राज्यसरकारस्य लक्ष्यं अस्ति यत् प्रत्येकग्रामपञ्चायते सेवा, स्वच्छता, स्वावलम्बनस्य प्रतीकं भवेत्।”
---------------
हिन्दुस्थान समाचार