Enter your Email Address to subscribe to our newsletters
14.82 लक्षमितेभ्यः राज्य कर्मचारिभ्यो लप्स्यते भूतिः, 1,022 कोटिमितं व्ययभारं वोढुंकरिष्यति राज्यसर्वकारः
लखनऊ, 14 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा योगिना आदित्यनाथेन दीपावल्याः अवसरं प्रति राज्यकर्मचारिभ्यः महान् उपहारः दत्तः। सः वित्तीयवर्षस्य 2024–25 कृते बोनस् प्रदाने निर्णयं कृतवान् अस्ति। मुख्यमन्त्रिणा उक्तम्—“अयं निर्णयः कर्मचारिणां परिश्रमस्य निष्ठायाश्च प्रति राज्यसरकारायाः प्रशंसायाः प्रतीकः अस्ति। प्रदेशस्य प्रगतौ सरकारीकर्मचारिणां भूमिका अतीव महत्वपूर्णा अस्ति, अतः सरकारः सर्वेषु स्तरिषु तेषां कल्याणाय प्रतिबद्धा अस्ति।”
मुख्यमन्त्रिणः निर्देशेन वित्तविभागेन जारीकृतादेशानुसारं राज्यकर्मचारिभ्यः उत्पादकतानिर्बद्धः बोनस् अनुमन्यः। अयं बोनस् मासिकपरिलब्धेः अधिकतमसीमा ७,००० इत्यस्य आधारेण ३०दिनानां परिलब्धीनां गणनां कृत्वा दातव्यः, येन प्रत्येकः पात्रः कर्मचारी ६,९०८ रूप्यकाणां लाभं प्राप्स्यति।
मुख्यमन्त्रिणा उक्तं दीपावल्याः पूर्वं दत्तं एतत् आर्थिकलाभं कर्मचारिणां परिवाराणां मध्ये आनन्दं उत्साहं च जनयिष्यति, शासनप्रशासने च नूतनाम् ऊर्जां संचारयिष्यति।
एतेन निर्णयेन राज्यसरकारस्य प्रायः १४लक्ष ८२सहस्र कर्मचारी लाभं प्राप्स्यन्ति, यस्य कुलव्ययभारः लगभग् १,०२२कोटि रूप्यकाणां भविष्यति। मुख्यमन्त्रिणा निर्देशः दत्तः यत् पात्रकर्मचारिभ्यः बोनस्समये दातव्यः, येन सर्वे परिवाराः अयं पर्वं उल्लासपूर्वकं अनुष्ठेयुः।
राज्यसर्वकारेण अनुमन्यबोनस्स्य अन्तर्गताः ते पूर्णकालिकाः अराजपत्रितकार्मिकाः येषां पदस्य वेतनं मेट्रिक्स्-लेवल्-८ (₹४७,६००–₹१,५१,१००) पर्यन्तं (सादृश्यग्रेड्वेतनं ₹४,८०० पर्यन्तम्) अस्ति। अस्मिन् राज्यकर्मचारी, राज्यनिध्या सहाय्यप्राप्ताः शिक्षणप्राविधिकसंस्थानकर्मचारी, स्थानीयनिकायानां जिला-पंचायतानां च कर्मचारी, राजकीयविभागानां कार्यभारितदैनिकवेतनभोगिनश्च अन्तर्भवन्ति।
उल्लेखनीयं यत् भारतसरकारापि वित्तीयवर्षस्य 2024–25 कृते गतं 29 सितम्बर 2025 दिनाङ्केन बोनस् प्रदाने निर्णयं कृतवती अस्ति।
---------------
हिन्दुस्थान समाचार