Enter your Email Address to subscribe to our newsletters
- यूएनडीपी, राज्यसरकार तथा संस्थानानां संयुक्तप्रयासेन आपदासहनशीलता-वृद्ध्यर्थं मन्थनं भविष्यति।
भोपालम्, 15 अक्टूबरमासः (हि.स.)। मध्यप्रदेशे विगतवर्षेषु बाढा–अनावृष्टि–वातावरणजन्यदुर्घटनाः सततं गम्भीररूपेण दृश्यन्ते। एतेभ्यः आपद्भ्यः जनधनहान्या सह राज्यस्य अर्थव्यवस्थायामपि गभीरः प्रभावः जातः। एतादृशानां चुनौतीनाम् अवलोकनेन अधुना राज्यसरकारा आपदाप्रबन्धनार्थं दीर्घकालिकां, सर्वसमावेशकां, वित्तीयदृष्ट्या सुदृढां च नीतिं प्रति अग्रे सरति। एतस्मिन् एव सन्दर्भे अद्य बुधवासरे राजधानीभोपालनगरे राज्यस्तरीयं सम्मेलनम् आयोजनं क्रियते, यस्य उद्देश्यं मध्यप्रदेशे आपदासहनशीलतां सुदृढीकर्तुम् अस्ति।
प्राप्तसूचनानुसारं मुख्यमन्त्रिणः प्रधानसचिवः अनुरागजैनः अध्यक्षतां करिष्यति। सम्मेलनस्य उद्घाटनं प्रातः ९.३० वादनतः मध्याह्न १२.३० वादनपर्यन्तं एआईजीजीपीए (AIGGPA) इत्यस्य सभागारे भविष्यति। तत्र यूएनडीपी–भारतम् (UNDP India) संस्थायाः उपनिवासप्रतिनिधि इसाबेल् त्सचान्, राष्ट्रीयआपदाप्रबन्धनप्राधिकरणस्य वरिष्ठपरामर्शदाता सैफी अहसन रिज़वी (ऑनलाइन माध्यमेन), तथा गृह–योजना–कृषि–महिला–बालविकास–वित्तविभागेषु वरिष्ठाधिकारिणः अपि संबोधनं करिष्यन्ति। एतत् आयोजनम् एआईजीजीपीए, मध्यप्रदेशराज्यनीतिऔरयोजनायोगः (MPRNA), राज्यआपदाप्रबन्धनसंस्थानम् (MP DMI) तथा संयुक्तराष्ट्रविकासकार्यक्रमः (UNDP India) इत्येतैः संयुक्तप्रयत्नेन सम्पन्नं भविष्यति।
सभायाः प्रमुखोद्देश्यं राज्ये सुदृढस्य सर्वसमावेशकस्य च राज्यआपदाविमा–कोषस्य (State Disaster Insurance Pool) संकल्पनायाम् चर्चा कर्तुम् अस्ति, येन आपदाकालेषु प्रभावितसमुदायानां—विशेषतः कृषकानां, नारीणां, असंगठितक्षेत्रे कार्यरतश्रमिकानां, लघुउद्यमिनां च—त्वरितं प्रभावीञ्च वित्तीयसहाय्यं लभेत। सम्मेलनमध्ये ‘NATCAT Pool’ इत्यादीनां अन्तरराष्ट्रीयस्तरीय–जोखिम–हस्तान्तरण–उपकरणानां सम्भावनाः अपि परीक्ष्यन्ते।
सम्मेलनमध्ये द्वौ विशेषौ तकनीकीसत्रौ भविष्यतः। एकस्मिन् सत्रे आपद्हानेः–न्यूनिकरणस्य वित्तीयतत्परता तथा विमाउद्योगस्य भूमिकायाम् प्रस्तुतिं दास्यन्ति। अन्यस्मिन् सत्रे केरल–नागालैंड–राज्यानां व्यावहारिकानुभवाः अपि सहभागीकृताः भविष्यन्ति, ये मध्यप्रदेशस्य दृष्ट्या शिक्षारूपेण ग्राह्याः स्युः। संयुक्तराष्ट्रविकासकार्यक्रमः (UNDP) एतस्मात् परामर्शात् प्रेरितः एकं विस्तृतं तकनीकीप्रस्तावं निर्मास्यति, यः अनन्तरं मध्यप्रदेशसर्वकाराय समर्प्यते। एषः प्रस्तावः राज्यस्य दीर्घकालिक–आपदाप्रबन्धन–संरचनां सुदृढीकर्तुं दिशायां एकः प्रामानिकनिर्णयः भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता