Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 15 अक्टूबरमासः (हि.स.)। लायन्स् क्लब् अन्ताराष्ट्रियस्य प्रतिनिधयः बुधवासरस्य दिवसे गांधीनगरनगर्यां मुख्यमन्त्रिणं भूवेन्द्रं पटेलं मिलितवन्तः।
मुख्यमन्त्रिणा स्वाध्यक्षत्वेन आयोजितायाम् अस्यां साक्षात्कार-सभायां उक्तम्— प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वच्छतायाः आरभ्य अर्धचालकपर्यन्तं सर्वेषु क्षेत्रेषु विकासः प्राथमिकतया स्थापितः अस्ति। तस्य परिणामरूपेण राष्ट्रं प्रतिदिनं नूतनान् विकासशिखरान् अतिक्रमति।
पटेलमहाभागेन उक्तम्— प्रधानमन्त्रिणः नरेन्द्रमोदिनः सकारात्मकनेतृत्वस्य फलस्वरूपे भारतस्य वैश्विकप्रतिमायाम् अभिवृद्धिः जाता। प्रधानमन्त्रिणा ‘वसुधैव कुटुम्बकम्’ तथा ‘सबकासाथ-सबकाविकास’ इति यः राजनैतिकदर्शनः प्रदत्तः, तस्मात् विश्वराष्ट्रेषु भारतस्य विषये विश्वासः वर्धितः अस्ति।
मुख्यमन्त्रिणा लायन्स् क्लबस्य विश्वव्यापिनि सेवाभाविनि संस्थायाम् उपस्थिति प्रशंसिता तथा तस्याः विकासोन्मुखेषु कार्येषु राज्यसरकारस्य यथोचितं सहयोगं दातुं आश्वासितम्।
प्रधानमन्त्रिणा आरब्धेषु विविधेषु अभियानेषु आगतपरिवर्तनानाम् अपि भूमिका निर्दिष्टा च, लायन्स् क्लबेन तेषु शासकीय-अभियानेषु सक्रियम् सहभागित्वं प्रशंसितम्।
अस्मिन् अवसरे लायन्स् क्लबस्य अन्ताराष्ट्रियाध्यक्षः ए. पी. सिंह नामकः, अन्ये पदाधिकारी सदस्याश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता