Enter your Email Address to subscribe to our newsletters
ग्वालियरम्, 15 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य ग्वालियरजिलायां अद्य बुधवासरे द्वादशश्रेणीपर्यन्तविद्यार्थिनां कृते अवकाशः भविष्यति। जिलाधिपस्य रुचिका चौहान-नाम्नः निर्देशानुसारं जिलाशिक्षाधिकारीणां आदेशः अस्मिन् विषये निर्गतः अस्ति।
मध्यप्रदेशस्य ग्वालियरनगरे उच्चन्यायालयपरिसरे डा॰ भीमराव-अम्बेडकरस्य प्रतिमास्थापनं विषये जातं विवादं प्रति कतिचन सङ्घटनानि अद्य बुधवासरे आन्दोलनस्य चेतावनीं दत्तवन्ति। तस्मात् कारणात् जिलाधिपा रुचिका चौहान नाम्ना सर्वेषां प्रकाराणां कार्यक्रमाणां, आयोजनेषु, जनसमूहनिर्माणे च प्रतिबन्धः स्थापितः अस्ति।
एतेषां कारणानां फलरूपेण सम्भाव्यमानस्थानीय-आयोजनानि तथा यातायातव्यवस्था-विघ्नस्य आशङ्कां दृष्ट्वा बालकानां असुविधा न भवेत्, तेषां हितं च रक्षितं भवेत् इति विचार्य एषः अवकाशः घोषितः अस्ति।
जिलाशिक्षाधिकारी हरिओम चतुर्वेदी इति अवदन् यत्, जनपदे स्थितानि सर्वाणि शासकीय-अशासकीय-अनुदानप्राप्तानि तथा सी.बी.एस.ई. एवं आई.सी.एस.ई. संबद्धानि विद्यालयानि यत्र द्वादशश्रेणीपर्यन्तविद्यार्थिनः अध्ययनं कुर्वन्ति, तेषां कृते अद्य अवकाशः घोषितः अस्ति। सर्वे अध्यापकाः स्वविद्यालयेषु उपस्थित्य अन्यानि शासकीयकार्यानि सम्पादयिष्यन्ति। अयम् आदेशः तत्क्षणमेव प्रवर्तिष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता