इन्दौरे दीपावलिपर्वणि मृददीपविक्रयः करात् मोचितः
इन्दौरनगरम्, 15 अक्तुबरमासः (हि.स.)। मध्यप्रदेशराज्ये इन्दौरनामके स्थाने दीपावलिपर्वणः अवसरं दृष्ट्वा, कुम्भकारैः परम्परानुसारं मृदया निर्मितानां दीपानां विक्रयाय आपणं प्रति आनीतपद्धतिं मनसि निधाय, जनपदाधिकारिणा शिवमवर्मणा महत् निश्चयं गृहीतम्। तेन
मिट्टी के दीये


इन्दौरनगरम्, 15 अक्तुबरमासः (हि.स.)। मध्यप्रदेशराज्ये इन्दौरनामके स्थाने दीपावलिपर्वणः अवसरं दृष्ट्वा, कुम्भकारैः परम्परानुसारं मृदया निर्मितानां दीपानां विक्रयाय आपणं प्रति आनीतपद्धतिं मनसि निधाय, जनपदाधिकारिणा शिवमवर्मणा महत् निश्चयं गृहीतम्। तेन मृददीपविक्रयः करमुक्तः इति आदेशः प्रकाशितः।

अतिरिक्त जनपददण्डाधिकारी रोशनरायनामकः बुधवारदिने अवदत् यत् दीपावलिपर्व प्रति पर्यावरणसंरक्षणं परम्परागतव्यवसायस्य च प्रोत्साहनं दत्त्वा, मृददीपविक्रये काचिदपि बाधा न भविष्यति। ग्रामपञ्चायतक्षेत्रेषु नगरपञ्चायतक्षेत्रेषु च करग्रहणं न भवेत् इति प्रशासनस्य विशेषनिर्देशाः प्रेषिताः।

प्रकाशिते आदेशे सर्वे विभागाः निर्देशिताः यत् ग्रामिणाः कुम्भकाराश्च मृददीपान् आपणेषु निर्बाधं विक्रयितुं शक्नुवन्तु। एवं पर्यावरणहितकारीणां पारम्परिकदीपानाम् उपयोगं जनाः प्रोत्साहयन्तु इति अपि उक्तम्।

अतिरिक्तजनपददण्डाधिकारी रोशनरायस्य हस्ताक्षरितस्य आदेशस्य प्रतयः आरक्षकाधीक्षकाय, जनपदपञ्चायते, नगरनिगमे, उप- आरक्षकाधीक्षकाय, जनपदपञ्चायतादिषु विभागेषु प्रेषिताः यत् निर्देशानां कठोरपालनं सुनिश्चितं भवेत्।

प्रशासनम् अपि आह्वानं करोति यत् नागरिकाः यथाशक्ति गोमयमृदमयदीपानाम् अधिकम् उपयोगं कुर्वन्तु, येन पर्यावरणसंरक्षणं स्यात् स्थानिकशिल्पिनश्च लाभं प्राप्नुयुः।

हिन्दुस्थान समाचार / अंशु गुप्ता