Enter your Email Address to subscribe to our newsletters
—आह्वानम्— दीपावल्यां गंगायां न अवाहयद्गृहस्य अवशिष्टा पूजन सामग्री
वाराणसी,15 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्ये वाराणसीनगरे महापर्वणः दीपावल्याः पूर्वसन्ध्यायां बुधवासरे “नमामि गङ्गे” इत्यस्य सदस्यैः नगरनिगमकर्मचारिभिः सह मोक्षतीर्थे मणिकर्णिकाघाटे स्वच्छताअभियानं आयोजितम्। अस्मिन् अभियाने जर्मनीदेशात् काशीं आगताः पर्यटकाः अपि पूर्णेन उत्साहेन सहभागीभूताः। तस्मिन् समये पर्यटकैः जनान् प्रति गङ्गां निर्मलां स्थापयितुं, मणिकर्णिकाघाटे च मलिनतां न कर्तुम् इति अपीलाऽपि कृता।
“नमामि गङ्गे” काशीक्षेत्रस्य संयोजकः राजेशः शुक्लः अवदत्— दीपपर्वकाले जनाः स्वगृहे पूजिताः प्रतिमाः पूजनसामग्रीश्च गङ्गायां विसर्जयन्ति। एतेन बासीपूजनसामग्रीणां गङ्गायां विसर्जनं न करणीयम् इति संदेशः अस्मिन् अभियाने प्रदत्तः। तेन उक्तं यत् जनानां जागरूकत्वेनैव गङ्गां निर्मलां कर्तुं शक्यते।
पूजाकाले उपयुज्यमानानां सर्वेषां द्रव्याणां स्वस्वं महत्त्वम् अस्ति। ज्योतिषशास्त्रानुसारं एषां पूजनसामग्रीणां प्रयोगेन गृहे सुखसमृद्धिः आगच्छति। किन्तु एतानि द्रव्याणि नदीषु क्षिप्तानि चेत् पर्यावरणं दूष्यते।
सः उक्तवान्— स्वच्छता केवलं सफायकर्मकाराणां वा शासकीयविभागानां न दायित्वम् अस्ति, अपि तु अस्माकं सर्वेषां नैतिकदायित्वं भवति। अस्माभिः स्वचिन्तनं परिवर्तनीयं, यतः स्वच्छता अस्माकं अपि नैतिककर्तव्यम् अस्ति।
---------------
हिन्दुस्थान समाचार