Enter your Email Address to subscribe to our newsletters
जयपुरम्, 16 अक्टूबरमासः (हि.स.)। मुख्यमंत्री भजनलालशर्मा जैसलमेरात् जोधपुरं प्रति आगच्छतः वातानुकूलिता-शयनीय-यानस्य दाहेन जातायां दुर्घटनायां निधनं प्राप्तानां जनानाम् आश्रितेभ्यः तथा आहतानां कृते आर्थिकसहाय्यम् अनुमोदितवान्।
मुख्यमंत्री उक्तवान् यत् शोकस्य अस्मिन् क्षणे राज्य-सर्वकारः मृतकानां परिवारैः सह स्थितवती अस्ति। तेषां परिपूर्णं साहाय्यं दातुं तथा आहतानां सर्वथा उपचारार्थं सर्वकारः दृढप्रतिज्ञा अस्ति। मृतकानाम् आश्रितेभ्यः दश-दश-लक्ष-रूप्यकाणाम् आर्थिकसहाय्यता अनुमोदिता। येषां कुलेषु तस्मिन् दुर्घटनायाम् त्रयः अथवा अधिकाः जनाः निधनं प्राप्तवन्तः, तेषां परिवारैः पञ्चविंशति-पञ्चविंशति-लक्ष-रूप्यकाणां सहायता प्रदास्यते। गम्भीर-आहतानां प्रति द्वि-द्वि-लक्ष-रूप्यकाणि तथा अन्येषां आहतानां प्रति एक-एक-लक्ष-रूप्यकाणि आर्थिकसाहाय्यं दास्यते।
शर्मणा मुख्यमन्त्रि-सहाय्य-निधेः नियमान् शिथिलीकरणं कृत्वा एषा स्वीकृतिः प्रदत्ता।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता