आईआईटी खड्गपुरस्य डॉ. सन्दीपः कुलकर्णिः अन्ताराष्ट्रिय “उत्कृष्टता-पुरस्कारं” प्राप्तवान्
खड़गपुरम्, 16 अक्टूबरमासः (हि.स.)। तीयप्रौद्योगिकीसंस्थानस्य (आईआईटी) खड्गपुरस्य पेट्रोलियम-अभियांत्रण-विभागस्य सहायक-प्राध्यापकः डॉ. सन्दीपः डी. कुलकर्णिः नवदेहल्यां सम्पन्ने अष्टमे अन्ताराष्ट्रिये तेल-गैसरसायनरसायनयोजकसम्मेलने (IOGCA 2025) “उत्कृ
आईआईटी खड़गपुर के डॉ. संदीप कुलकर्णी


डॉ. संदीप कुलकर्णी को अंतरराष्ट्रीय उत्कृष्टता पुरस्कार


आईआईटी खड़गपुर के डॉ. संदीप कुलकर्णी


खड़गपुरम्, 16 अक्टूबरमासः (हि.स.)। तीयप्रौद्योगिकीसंस्थानस्य (आईआईटी) खड्गपुरस्य पेट्रोलियम-अभियांत्रण-विभागस्य सहायक-प्राध्यापकः डॉ. सन्दीपः डी. कुलकर्णिः नवदेहल्यां सम्पन्ने अष्टमे अन्ताराष्ट्रिये तेल-गैसरसायनरसायनयोजकसम्मेलने (IOGCA 2025) “उत्कृष्टता-पुरस्कारम्” नामकस्मात् सम्मानात् अलंकृतः अभवत्। अयं पुरस्कारः रसायन-तथा रासायनिक-अभियांत्रण-श्रेण्यां प्रदत्तः।

डॉ. कुलकर्णिनः नाम्ना द्वात्रिंशत् पेटेण्ट्-प्रकाशनानि सन्ति, च पञ्चाशताधिकानि अनुसंधान-पत्राणि प्रतिष्ठितेषु अकादमिक-पत्रिकासु तथा पेट्रोलियम-अभियांत्रण-सोसाइट्यां प्रकाशितानि। तस्य अनुसंधानं ड्रिलिंग् तथा पूर्णता-प्रौद्योगिकी, हाइड्रोलिक्-फ्रैक्चरिंग्, कार्बन-द्विऑक्साइड् भू-भण्डारणम् तथा भू-ऊर्जा-क्षेत्रेषु विस्तृतम् अस्ति।

डॉ. कुलकर्णिना आईआईटी खड्गपुरे केवलं सप्तवर्षाणामध्ये षोडश-विशालानि उद्योग-प्रायोजितानि अनुसंधान-विकास-प्रकल्पानि नेतृत्वेन सम्पन्नानि, यस्मिन् बहुराष्ट्रीय-समूहानाम्, सार्वजनिक-क्षेत्रीय-संस्थापनानाम्, लघु-मध्यम-उद्योगानां च सहयोगः आसीत्।

तस्मिन् एव सम्मेलने तेन सर्वश्रेष्ठ-अनुसंधानपत्रप्रस्तुतिपुरस्कारः अपि प्राप्तः, यः तेन आईडीटी तथा ओएनजीसीसंयुक्त-अनुसंधानपरियोजनायाः कृते अर्जितः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता