Enter your Email Address to subscribe to our newsletters
नवदेहली, 18 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री रेखागुप्ता उक्तवती यत् अद्य देहली स्वस्य प्रथमं दिव्यदीपोत्सवं कर्तव्यपथे उत्सवति। शनिवासरे तया सामाजिकमाध्यमे “एक्स्” इत्यस्मिन् प्रकाशिते सन्देशे उक्तम् — “यदा अयोध्यां प्रभुः श्रीरामः प्रत्यागच्छन्, तदा सम्पूर्णा भूमिः दीपप्रकाशैः जगमगामास। यदा च रामललास्वभव्ये मन्दिरे विराजमानः अभवत्, तदा भारतः स्वात्मानं पुनः परिचितवान्। सैव चेतना, स एव प्रभोः श्रीरामस्य अयोध्याप्रत्यागमनस्य भावः अधुना देहल्याः कर्तव्यपथे अवतीर्यते।”
सा अवदत् — “अद्य कर्तव्यपथे एकलक्षैकादशसहस्रदीपमालिका, दिव्यरामकथा, भव्यड्रोनप्रदर्शनं च सांस्कृतिकनिवेदनैः सह देहली स्वस्य प्रथमं दिव्यदीपोत्सवं उत्सवति। एषः उत्सवः तस्य सनातनसंस्कृतेः प्रतीकः, या युगयुगात् एतत् संदेशं ददाति — ‘रामः आसीत्, रामः अस्ति, रामः भविष्यति।’”
मुख्यमन्त्रिणा सर्वेभ्यः आग्रहः कृतः यत् एषस्य ऐतिहासिकक्षणस्य साक्षिणः भवन्तु। सा अवदत् — “अद्य सायं षट्वादने आरभ्य कर्तव्यपथे सर्वेषां स्वागतं कृतं भवति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता