Enter your Email Address to subscribe to our newsletters
देहलीनगरनिगमस्य महापौरः, उपमहापौरः, स्थायीसमित्याः अध्यक्षः, सभायाः नेता च नेतृत्त्वं करिष्यति।
नवदेहली, 18 अक्टूबरमासः (हि.स.)। देहलीनगरनिगमेन राजधानीनगरस्य मार्गेषु विथीषु च सञ्चितावकरपर्वतान् निवारयितुं शनिवासरे विशेषः स्वच्छता-अभियानः आरब्धः। निगमसभायाः नेता प्रवेशवाही इत्यनेन उक्तं यत् अस्मिन् अभियाने अन्तर्गते देहलीनगरस्य सर्वेषु क्षेत्रेषु 517 गार्बेज् वल्नरेबल् पॉइण्ट् (जीवीपी) स्थलेषु प्रतिदिनं स्वच्छतानिरीक्षणं भविष्यति।
अस्य अभियानस्य नेतृत्त्वं करिष्यन्ति—देहलीमहापौरः राजा इक्बाल्सिंहः, उपमहापौरः जयभगवान्यादवः, स्थायीसमित्याः अध्यक्षः सत्या शर्मा, स्थायीसमित्याः उपाध्यक्षः सुन्दरतन्वरः, शिक्षासमित्याः अध्यक्षः योगेशवर्मा, डेम्स् समित्याः अध्यक्षः संदीपकपूरः च। एते सर्वे क्षेत्राध्यक्षैः सह निगमाधिकारिणः च प्रतिदिनं प्रातःकाले निरीक्षणाय निर्गमिष्यन्ति।
महापौरः राजा इक्बाल्सिंहः नागरिकान् प्रति निवेदनं कृतवान् यत् ते स्वक्षेत्राणि स्वच्छानि कर्तुं नगरनिगमाय साहाय्यं कुर्वन्तु। तेन उक्तं यत् देहालिं स्वच्छां हरितां च कर्तुं अस्माकं सामूहिकं कर्तव्यम् अस्ति। अस्मिन् कर्मणि नागरिकानां सहभागिता अत्यन्तं आवश्यकम् अस्ति।
सभायाः नेता प्रवेशवाही इत्यनेन उक्तं यत् देहलीनगरस्य द्वादशसु क्षेत्रेषु 517 स्थलेषु अवकरसञ्चयस्य नियमितं दर्शनं भवति इति चिन्हितम्। तेन उक्तं यत् अस्य अभियानस्य लक्ष्यं अस्ति — प्रत्येकं खण्डं, प्रत्येकं क्षेत्रं, प्रत्येकं मार्गं च स्वच्छं सुन्दरं च अवकरमुक्तं च कर्तुम्।
सभायाः नेतृणा उक्तं यत् निरीक्षणकाले अधिकारिणः एतत् सुनिश्चितं करिष्यन्ति यत् अवकरसञ्चयः केन कारणेन भवति, तस्य निवारणार्थं च के उपायाः क्रियन्ते इति। प्रतिदिनं च प्रगति-प्रतिवेदनं निगममुख्यालयं देहलीसर्वकारं च प्रति प्रेष्यते।
प्रवेशवाही इत्यनेन उक्तं यत् जीवीपीस्थलानि केवलं स्वच्छानि न भविष्यन्ति, अपि तु तत्र पौधाः रोप्यन्ते, तानि च आकर्षकरूपेण विकास्यन्ते यतः पुनः कोऽपि तत्र अवकरं न स्थापयेत्।
हिन्दुस्थान समाचार / अंशु गुप्ता