Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 19 अक्टूबरमासः (हि.स.)।प्रधानमन्त्रिणः नरेन्द्रमोदिनः आदिकैलाशं प्रति गमनानन्तरं श्रद्धालूनां मध्ये आदिकैलासयात्रायाः प्रति रुझानः अथवा आकर्षणं बहुधा वर्धितम्। अस्य वर्षस्य आदिकैलाशयात्रा पूर्ववर्षाणां सर्वेषां अभिलेखान् अतिक्रान्तवती। अस्मिन् वर्षे एकत्रिंशत् सहस्रं पञ्चशतानि अष्टनवतिः (३१,५९८) यात्रिकाः आदिकैलाशम् ओं-पर्वतं च दर्शनं कृतवन्तः।
पर्यटनमन्त्री सत्पालमहारेजः उक्तवान् यत् देवभूमौ उत्तराखण्डे अध्यात्मिकसुखशान्त्यर्थं श्रद्धालूनां चरणाः शीघ्रं प्रवर्धन्ते। आदिकैलासयात्रा अधिकं सुयोजिता भविष्यति, यथा यात्रिणः सर्वाः आवश्यकसुविधाः मार्गे लभेरन्। मुख्यमन्त्री पुष्करसिंहधामी अपि यात्रासुविधानां विस्ताराय विशेषं बलं दत्तवान्।
आदिकैलाशः – हिमालयस्य शिखरप्रदेशे यत्र भगवान् शङ्करः निवसन्ति
पिथौरागढ्जिलेलोकस्थितः आदिकैलाशः “लघुकैलाशः”, “शिवकैलाशः”, “बाबाकैलाशः”, “जोंगलिंगकोंग्-शिखरः” इत्यपि नामभिः प्रसिद्धः। हिमालयस्य एषः भागः हिन्दूशास्त्रेषु अत्यन्तं पवित्रः इति निर्दिष्टः। एवमपि उच्यते — “यः आदिकैलासस्य दर्शनं करोति, स साक्षात् शिवस्यानुग्रहम् लभते।”
पञ्चकैलाशेषु आदिकैलाशो द्वितीयस्थाने अस्ति। पञ्चकैलासानां क्रमः — (१) कैलासः (तिब्बते), (२) आदिकैलासः, (३) श्रीखण्ड अथवा शिखरकैलासः, (४) किन्नौरकैलासः, (५) मणिमहेशकैलाशः इति। अत्र गौरीकुण्डं पार्वतीनामकम् इति द्वौ तले स्तः। उन्नतहिमालयप्रदेशे स्थिते एते तले स्वच्छनिलजलयुतौ प्रकृतेः दर्पणवत् प्रकाशेते। तयोः अन्तर्जले नीलवर्णेण प्रतिफलिता प्रकृतिः श्रृङ्गारं कुर्वतीव दृश्यते। सनातनधर्मावलम्बिनां तयोः प्रति गाढा श्रद्धाभावः वर्तते।
ओं-पर्वतः – शिवस्य ओंकाररूपस्य साक्षात्कारः
ओं-पर्वतस्य दर्शनं जन्मान्तरसञ्चितपुण्यफलस्य उद्भवः इति मन्यते। यदा ओं-शब्दः स्वयं हिमशिखरे प्रकटः दृश्यते, तदा अनेके श्रद्धालवः नयनजलैः आन्दोलिताः भवन्ति। हिमालयस्य षट्सहस्रं एकनवतिशतं एकमेकं मीटर् (६१९१ मीटर्) उच्चे एषः ओं-पर्वतः अद्भुतरचना इति कथ्यते। अत्र स्वयमेव ब्रह्मा, विष्णु, महेश इत्येताः शक्तयः एकस्मिन् पर्वते दृश्यन्ते इति आस्थाश्रद्धा वर्तते।
पुराणेषु उक्तं यत् हिमालये अष्टौ ओं-रूपाणि स्थितानि, किन्तु अद्यापि प्रत्यक्षे केवलं अयं पर्वतः एव दृश्यते।
आदिकैलाश-ओं-पर्वतयात्रया नवीनः अभिलेखः स्थापितः
उत्तराखण्डपर्यटनविभागस्य अनुशारेण वर्षे २०२२ तमे १७५७ यात्रिकाः, २०२३ तमे १०,०२५ यात्रिकाः, २०२४ तमे २९,३५२ यात्रिकाः, अस्मिन् तु वर्षे ३१,५९८ यात्रिकाः आदिकैलाशं च ओं-पर्वतं च दर्शनं कृतवन्तः।
यात्रा प्रतिवर्षं विस्तारं प्राप्नोति, तेन पिथौरागढ्जिलाप्रशासनस्य उत्तरदायित्वानि अपि वर्धितानि। जिलाधिकारी विनोदगोस्वामिनामकः उक्तवान् यत् — “यात्रा कठिनास्ति, तथापि यात्रिकाणां सुविधाप्रदानाय सरकारः तीव्रेण गत्याऽभियुज्यते।”
एवं हिमालयस्य अयं क्षेत्रः केवलं पर्वतसमूहः न, अपितु आस्थाया, अध्यात्मस्य च जीवन्मन्दिरम् इव दृश्यते।
हिन्दुस्थान समाचार