अयोध्यायां स्वयंसेवकाः अवदन् ,अस्माकं प्रेरको मुख्यमंत्री योगी
अयोध्या, 19 अक्टूबरमासः (हि.स.)।दीपोत्सवस्य २०२५ वर्षस्य प्रकाशे अयोध्याया: सर्वः कोणः योगिसरकारायाः उपलब्धिभिः च प्रभोः श्रीरामभक्त्या च ओतप्रोतः दृश्यते। रामस्य पैडी एवं सरयूघाटे समागताः स्वयंसेवकाः युवानश्च मुख्यमन्त्रिणं योग्यादित्यनाथं प्रति
दीपोत्सव रिकॉर्ड


दीपोत्सव रिकॉर्ड


दीपोत्सव रिकॉर्ड


दीपोत्सव रिकॉर्ड


अयोध्या, 19 अक्टूबरमासः (हि.स.)।दीपोत्सवस्य २०२५ वर्षस्य प्रकाशे अयोध्याया: सर्वः कोणः योगिसरकारायाः उपलब्धिभिः च प्रभोः श्रीरामभक्त्या च ओतप्रोतः दृश्यते।

रामस्य पैडी एवं सरयूघाटे समागताः स्वयंसेवकाः युवानश्च मुख्यमन्त्रिणं योग्यादित्यनाथं प्रति मुक्तकण्ठेन स्तुतिं कुर्वन्तःअवदन्— “योगी अस्माकं आदर्शः। तस्य व्यक्तित्वेन अस्माभिः प्रत्यक्षं सम्बन्धः अनुभूयते।”

राममनोहरलोहीया अवधविश्वविद्यालयस्य समन्वयकाः छात्राः च दीपोत्सवस्य भव्यतां, मुख्यमन्त्रिणः नेतृत्वं च प्रशंसन्तः उक्तवन्तः यत्— “तस्य मार्गदर्शनात् अयोध्यायाः गौरवः पुनर्जीवितः जातः।”

राममनोहरलोहीया अवधविश्वविद्यालयस्य महिला-प्राध्यापकानां निर्देशनात् रामस्य पैडीस्थले पारम्परिक-चौकपूरण-शैल्यां स्वास्तिकरूपं कलासज्जनं कृतम्। तद् दृश्यं श्रद्धालूनां हृदयानि हरति स्म।

प्रोफेसर-डॉ॰ सरिता-द्विवेदी (रङ्गोली-प्रमुखा) इत्यस्याः नेतृत्वे शिक्षकैः छात्रैः छात्राभिः च मिलित्वा नानाविधाः आकर्षकाः कलाकृतयः निर्मिताः। दीपैः भूषिताः ताः कलाकृतयः दीपोत्सवस्य शोभां बहुगुणितां कृतवत्यः। जनाः तासां रचनानां हृदयेन प्रशंसां कृतवन्तः।

---

“साक्षात् स्वर्गसमा अयोध्या” — संस्कृतविद्यार्थिनः अनुभवः

संस्कृत-विभागे एम्.ए. पठमानः कर्मकाण्ड-तयारीनिमित्तं निरतः छात्रः करणपाण्डेय नामकः उक्तवान् — “अस्मिन् वर्षे सर्वेषां वर्षाणां तुलनया दीपोत्सवः अधिकं वैभवं प्राप्नोति। अत्र अयोध्या एव स्वर्गसमा दृश्यते।”

योगिनः आदित्यनाथस्य मुख्यमन्त्रित्वेन अस्माकं सनातनधर्मः दृढतरः जातः। अस्माकं गर्वविषयः अस्ति यत् मुख्यमन्त्रिणा रामकथापार्के आगत्य अस्माकं उत्साहः वर्धितः। करणः अधुना अयोध्यायाः गुरुकुले निवसन् संस्कृताध्ययनं करोति।

अवधविश्वविद्यालये पठन्तश्छात्राः दीपोत्सवेन अतीव उत्साहिताः आसन्। सुलतानपुरातः आगतः आशुतोषसिंह नामकः छात्रः उक्तवान् — “मुख्यमन्त्रिणः योग्यादित्यनाथस्य आगमनानन्तरं अयोध्यायाः रूपं पूर्णतः परिवर्तितम्। दीपोत्सवः केवलं भक्तिपर्वः न, किन्तु अयोध्यायाः अस्मिता जाता।”

आशुतोषः स्वपरिवारसहितः दीपोत्सवदर्शनाय आगतः, सः प्रहर्षेण उक्तवान् — “एषः उत्सवः अस्मान् गौरवयुक्तान् करोति।”

स्वयंसेवकैः अनुशासनस्य समर्पणस्य च आदर्शः प्रदर्शितःयद्रामपैडी तथा सरयूघाटे नियोजिताः स्वयंसेवकाः दीपोत्सवस्य व्यवस्थां सुगठितरूपेण संचालितवन्तः। युवानः अनुशासनं, समर्पणभावं, सेवाभावं च असाधारणं प्रदर्शितवन्तः।

प्रत्येकं कोणे “जय श्रीराम” इति घोषः, दीपानां पङ्क्तयः, युवानां उमङ्गः च— एते सर्वे अयोध्यां भक्तेः ऊर्जायाः च संगमे परिवर्तितवन्तः।

---

हिन्दुस्थान समाचार