Enter your Email Address to subscribe to our newsletters
--मुख्यमंत्री ने राम की पैड़ी पर संतों, आगंतुकों व अतिथियों संग किया सांस्कृतिक कार्यक्रमों का दीदार
-लेजर शो के बीच कलाकारों ने रामायण के सभी सात कांड के प्रसंगों पर आधारित कार्यक्रम में दी सांस्कृतिक प्रस्तुति
अयोध्या, 19 अक्टूबरमासः (हि.स.)।दीपोत्सवस्य २०२५ तमे वर्षे मुख्ये आयोजनस्थले “रामकीपैड्यां” सहस्रदीपप्रज्वलनसमये ‘‘आध्यात्मिकवृष्टिः’’ इवाभवत्। तत्र मुख्यमंत्री च गोरक्षपीठाधीश्वरः महन्तयोगीआदित्यनाथः सन्तमहन्तैः सह श्रीरामायणस्य सर्वेषां काण्डानां प्रसङ्गानामवलोकनं कृतवान्। उत्तरप्रदेशपर्यटनविभागेन भगवतः श्रीरामस्य सम्पूर्णजीवनवृत्तं प्रति ‘‘रामायणत्रिडीप्रोजेक्शनम्यापिङ्ग्’’ इति सजीवप्रदर्शनं भव्यं लेजरशो च आयोजितौ। आदौ मुख्यमंत्री महन्तयोगीआदित्यनाथः सन्तैः, मन्त्रिभिः च सह दीपप्रज्वलनं कृतवान्।
रामायणकाण्डानां अलौकिकप्रदर्शनम्
मुख्ये आयोजनस्थले “रामकीपैड्यां” अतिथयः, आगन्तुकाः, जनसमूहः च सांस्कृतिककार्यक्रमेषु सम्मिलिताः। तत्र बालकाण्डात् आरभ्य उत्तरकाण्डान्तं सर्वेषां काण्डानां प्रसङ्गाः नाट्यरूपेण अद्भुतरूपेण प्रदर्शिताः। ‘‘रामराज्यं पुनः स्थापयामः’’ इत्यादिगीतैः सह कलाकाराणां प्रस्तुती जनमानसस्य हृदयं स्पृशन्ती अभवत्। अवधपुरी सर्वतोमुखेन ‘‘श्रीराम जय राम जय जय श्रीराम’’ इत्येते मन्त्राः गुंजमानाः आसन्।
स्वदेशीड्रोनानां आकाशीयचित्रप्रदर्शनम्
उत्तरप्रदेशपर्यटनविभागेन ११०० स्वदेशीड्रोनयानानि आकाशे प्रक्षिप्तानि, येन श्रीरामायणस्य विविधप्रसङ्गाः ज्योतिर्मयैः आकृतिभिः प्रदर्शिताः। ‘‘जयश्रीराम’’, ‘‘धनुर्धारीरामः’’, ‘‘रामसीतालक्ष्मणहनुमत्प्रतीकानि’’, ‘‘पुष्पकविमानम्’’, ‘‘श्रीरामजन्मभूमिमन्दिरम्’’ इत्यादयः मनोहराः आकृतयः दृष्टाः। प्रकाशसङ्गीतयोजनया सह एषा प्रस्तुति सर्वेषां हृदयं रोमाञ्चितं कृतवती। सर्वे योगीसरकारस्य पर्यटनकार्ये प्रशंसां प्रकटयामासुः।
रामनामगानविभूषिता अयोध्या
सांस्कृतिककार्यक्रमेषु ‘‘श्रीरघुपतिरघुनन्दनराम’’, ‘‘मातासीतेश्वरराम’’, ‘‘जयश्रीराम’’, ‘‘अयोध्यानायकप्रभुश्रीराम’’ इत्यादिगीतगुञ्जया अयोध्यानगरी श्रीरामनामेन कम्पमानाऽभवत्। यथा पुनः त्रेतायुगस्य झलकं कश्चन कलियुगे द्रष्टुं शक्नोति इत्येवाभवत्।
दीपप्रज्वलनसमये उपस्थिताः महनीयाः
दीपप्रज्वलनकाले राघवाचार्यमहाभागः, मन्त्री सूर्यप्रतापशाही, जयवीरसिंह, संजयनिषाद, राकेशसचान्, सतीशचन्द्रशर्मा, महापौरः गिरीशपतित्रिपाठी, जिला–पंचायच्चाध्यक्षा रोलीसिंह, विधायकः वेदप्रकाशगुप्तः, रामचन्द्रयादवः च अन्ये च सन्तः महन्ताश्च उपस्थिताः आसन्।
एवं दीपोत्सवः २०२५ अयोध्यायां दिव्यताम्, भक्ति–वैभवम्, च योगी–नेतृत्व–प्रशंसां च एकत्र समर्पयन् ‘‘नव–अयोध्या’’ इति भावनां साकारीकृतवान्।
हिन्दुस्थान समाचार