Enter your Email Address to subscribe to our newsletters
रायपुरम् 19 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणः विष्णुदेवसायनामकस्य आजादिने रविवासरे जशपुरजिलायाः एकदिवसीय प्रवासः भविष्यति। नियतकार्यक्रमानुसारः मुख्यमन्त्री प्रातः ११:४० वादनान्ते रायपुरस्थिते मुख्यमंत्रीनिवासे सिविललाइन्स् इत्यस्मात् वाहनयात्रया प्रस्थितः भविष्यति। ततः ११:४५ वादनान्ते पुलिसग्राउण्डस्थानकात् उदग्रविमानेन प्रयास्यति।
मुख्यमन्त्री द्वादशविकले १:१० वादनसमये माध्यमिकविद्यालयक्रीडाक्षेत्रस्थिते हेलीपैडे, ग्रामे कन्डोरा (गोकुला आमा बगीचा) आगमिष्यति। ततः १:१५ वादनसमये अखिलभारतीयरौतियसमाजविकासपरिषदया आयोजिते “महासम्मेलनम् (सोहरई कर्मा महोत्सवः २०२५)” इत्यस्मिन् कार्यक्रमे भागं गृहीत्वा सभां सम्बोधयिष्यति।
कार्यक्रमपर्यवसानानन्तरं २:४५ वादनपर्यन्तं कालः आरक्षितः भविष्यति। मुख्यमन्त्री २:५० वादनसमये कन्डोरा-हेलीपैडात् हेलिकोप्टरेण बगिया (कांसाबेल) ग्रामं प्रति प्रस्थितः भविष्यति तथा ३:१० वादनसमये तत्र आगमिष्यति। ततः वाहनयात्रया निजनिवासं बगिया ग्रामं प्रति गमिष्यति, यत्र तस्य रात्रिविश्रान्तिः भविष्यति।
मुख्यमन्त्रिणः २० अक्टूबर (सोमवारवासरे) दिवसः सम्पूर्णः निजनिवासे बगियायामेव आरक्षितः भविष्यति।
---------------
हिन्दुस्थान समाचार