उप मुख्यमंत्री शुक्लः अद्य अनूपपुर जिलायाः प्रवासे
भाेपालम्, 19 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य उपमुख्यमन्त्री श्रीराजेन्द्रशुक्लः अद्य रविवासरे अनुपपुरजिलस्य प्रवासे भविष्यन्ति। यत्र ते पूर्वमन्त्री तथा विधायकः अनुपपुरनिवासी श्रीबिसाहूलालसिंहस्य पुत्रस्य निधनानन्तरं तस्य गृहग्रामे परासी इत्यस्म
उप मुख्यमंत्री शुक्ल


भाेपालम्, 19 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य उपमुख्यमन्त्री श्रीराजेन्द्रशुक्लः अद्य रविवासरे अनुपपुरजिलस्य प्रवासे भविष्यन्ति।

यत्र ते पूर्वमन्त्री तथा विधायकः अनुपपुरनिवासी श्रीबिसाहूलालसिंहस्य पुत्रस्य निधनानन्तरं तस्य गृहग्रामे परासी इत्यस्मिन् ग्रामे शोकसंवेदना व्यक्तुं गमिष्यन्ति।

निर्धारितकार्यक्रमानुसारम् —

उपमुख्यमन्त्री रविवासरे प्रातः रीवा नगरात् ग्रामं परासी प्रति प्रस्थानं करिष्यन्ति, यत्र ते श्रीबिसाहूलालसिंहस्य पुत्रस्य निधनानन्तरं शोकं व्यक्तुं गमिष्यन्ति।

मध्यान्हे १:४५ वादने अनुपपुरे जिलाचिकित्सालयस्य भ्रमणं निरीक्षणं च करिष्यन्ति।

ततः ३:४५ वादने शहडोल-जिलाचिकित्सालयस्य अपि भ्रमणं निरीक्षणं च करिष्यन्ति।

अपराह्णे ५:३० वादने शहडोलात् रीवा-नगरं प्रति प्रस्थानं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार