दीपावल्यां सर्वकारीचिकित्सालयेषु संकेतः,24 घंटासु लप्स्यते 108 एवं 102 रोगिवाहनसेवा
लखनऊ, 19 अक्टूबरमासः (हि.स.)।दीपावली-पर्वणः अवसरं प्रति दृष्ट्वा उत्तरप्रदेशस्य राजधानी-लखनऊ-नगरस्थेषु सर्वेषु राजकीय-चिकित्सालयेषु सतर्कता- प्रसारिता अस्ति। सर्वेषु चिकित्सालयेषु त्रिदिनं यावत् पृथक्-चिकित्सकाणां ड्यूटी-निर्णयः कृतः। तथा “ऑन-कॉल्”
दीपावल्यां सर्वकारीचिकित्सालयेषु संकेतः,24 घंटासु लप्स्यते 108 एवं 102 रोगिवाहनसेवा


लखनऊ, 19 अक्टूबरमासः (हि.स.)।दीपावली-पर्वणः अवसरं प्रति दृष्ट्वा उत्तरप्रदेशस्य राजधानी-लखनऊ-नगरस्थेषु सर्वेषु राजकीय-चिकित्सालयेषु सतर्कता- प्रसारिता अस्ति। सर्वेषु चिकित्सालयेषु त्रिदिनं यावत् पृथक्-चिकित्सकाणां ड्यूटी-निर्णयः कृतः। तथा “ऑन-कॉल्” चिकित्सकान् अपि सदा उपस्थितान् भवितुं निर्दिष्टम्।

दीपावली-दिनेषु त्रिदिनं यावत् १०८ तथा १०२-अम्बुलेंस-सेवा चोवींशी-घण्टान्तरं निरन्तरं उपलब्धा भविष्यति।

के०जी०एम०यू० संस्थायाः ट्रॉमा-केंद्रस्य प्रभारी डॉ० प्रेमराजसिंहः रविवासरे उक्तवान् यत् दीपावल्यां विस्फोटेभ्यः घायमानानां उपचारार्थं सम्यक् व्यवस्थाः कृताः सन्ति। दीपावली-पर्वं दृष्ट्वा विशेषतः शय्याः (बेड्) आरक्षिताः सन्ति।

बलरामपुर-चिकित्सालयस्य अधीक्षकः डॉ० देवाशीषशुक्लः “हिन्दुस्थान-समाचाराय” उक्तवान् — बलरामपुर-चिकित्सालयः नगरस्य मध्यभागे स्थितः अस्ति, अत्र सर्वाधिकं रोगिणः आगच्छन्ति। अतः अस्मिन् चिकित्सालये आपत्कालिक-विभागे पञ्चाशत् शय्याः आरक्षिताः।

एतेषां अतिरिक्तं बाल-गहन-चिकित्सा-विभागे (Pediatric ICU), पी०आई०सी०यू० तथा बाल-आपत्कालिक-विभागे अपि बालकानां कृते शय्याः आरक्षिताः सन्ति।

भाऊराव-देवरस-संयुक्त-चिकित्सालयस्य अधीक्षकः डॉ० मनीषशुक्लः उक्तवान् — अस्मिन् चिकित्सालये अपि अतिरिक्त-चिकित्सकाणां दायित्वानि स्थापितानि सन्ति। विशेषज्ञ-चिकित्सकाः अपि “ऑन-कॉल्” रूपेण सदा उपलब्धाः भविष्यन्ति।

लखनऊ-नगरस्य मुख्य-चिकित्साधिकारी डॉ० एन०बी०सिंहः आदेशं दत्तवान् यत् प्राथमिक तथा सामुदायिक-स्वास्थ्य-केंद्रेषु शय्याः आरक्षिताः भवन्तु, आपत्कालिक-सेवायां च पर्याप्त-औषधयः सन्निधौ स्युः।

एवं राज्ये दीपोत्सवकाले स्वास्थ्य-सुव्यवस्था-सुनिश्चित्य जनहितं प्रति शासनस्य सतर्कता द्रष्टुं शक्यते।

------------

हिन्दुस्थान समाचार