जयप्रकाश विश्वविद्यालये जातो मतदातृजागरूकताकार्यक्रमः
पटना, 19 अक्टूबरमासः (हि.स.)।पाटलिपुत्र सामाजिकविज्ञान-अनुसन्धान-संस्थानस्य, नवीदिल्लीस्थितस्य, सारणजिलाप्रशासनस्य च संयुक्त-तत्वावधानम् अन्तर्गतं एकदिवसीय-मतदातृ-जागरूकता-कार्यक्रमस्य उद्घाटनं कृत्वा जयप्रकाश-विश्वविद्यालयस्य छपरास्थस्य प्रभारी-कु
जयप्रकाश विश्वविद्यालय में हुआ मतदाता जागरूकता कार्यक्रम


पटना, 19 अक्टूबरमासः (हि.स.)।पाटलिपुत्र सामाजिकविज्ञान-अनुसन्धान-संस्थानस्य, नवीदिल्लीस्थितस्य, सारणजिलाप्रशासनस्य च संयुक्त-तत्वावधानम् अन्तर्गतं एकदिवसीय-मतदातृ-जागरूकता-कार्यक्रमस्य उद्घाटनं कृत्वा जयप्रकाश-विश्वविद्यालयस्य छपरास्थस्य प्रभारी-कुलपति प्रो० डॉ० गजेन्द्रकुमारः उक्तवान् यत्, भारतदेशे महानां बलिदानानां परं लोकतन्त्रस्य स्थापना अभवत्। अस्मिन् च संविधाननिर्माता डॉ० भीमराव-अम्बेडकरस्य प्रयत्नैः सर्वेभ्यः नागरिकेभ्यः बालिग-मताधिकारस्य अधिकारः प्राप्तः।

ते अवदन् यस्मिन् महाराण्याः च मेहताराण्याः च समानाधिकारतः एकं मतं दातुं अधिकारः प्राप्तः अस्ति। अतः अस्माभिः स्वस्य मताधिकारस्य उपयोगः लोकतन्त्रस्य सफलतायै कर्तव्यः।

जयप्रकाश-विश्वविद्यालयस्य सीनेट-सभागारे आयोजिते अस्मिन् समारोहेषु अध्यक्षतां वहन् राजनीति-विज्ञान-विभागस्य पूर्वाध्यक्षः डॉ० लालबाबु-यादवः उक्तवान् — “आगामिनि नवम्बरमासस्य षष्ठ्यां तिथौ अस्माभिः मतकेंद्रेषु गत्वा उत्सवभावेन मतदानं कर्तव्यम्।”

जिलाप्रशासनस्य प्रतिनिधिः सन्तोषकुमारः मतदातृ-जागरूकता-कार्यक्रमस्य तांत्रिक-पहलून् निरूप्य सर्वान् नागरिकान् सारणक्षेत्रे मतप्रतिशतवृद्ध्यर्थं सक्रियतां प्रति आहूतवान्।

अस्मिन् अवसरे जे०पी०एम० महाविद्यालयस्य राजनीति-विज्ञान-प्राध्यापिका डॉ० सोनालीसिंह युवा-मतदातॄन् राजनीतिेः क्षेत्रे प्रवर्तितुं मतदानं च कर्तुं आहूतवती। सेंट्रल-पब्लिक-विद्यालयस्य निर्देशकः डॉ० हरेंद्रसिंह जनतन्त्रे एकस्य मतस्य महत्त्वं दृष्टान्तैः सह निरूपितवान्।

प्रथमसत्रस्य धन्यवादप्रस्तावं कुलसचिवः डॉ० नारायणदासः कृतवान्। प्रतियोगिता-सत्रे निर्वाचन-विषये क्विझ् तथा वाद-विवाद-प्रतियोगिता आयोजिते।

वादविवादप्रतियोगायां प्रथमपुरस्कारं युवराजसिंह प्राप्तवान्, द्वितीयं सोनुकुमारः, तृतीयं उम्मेहानी-श्वेता च। क्विझ्-प्रतियोगायां प्रथमं निशान्तकुमारः, द्वितीयं श्रेयाश्रीवास्तवः, तृतीयं जीशूसिंह इति विजेतारः घोषिताः।

प्रथम-द्वितीय-तृतीय-विजेतॄभ्यः प्रमाणपत्रैः सह ११००, ७००, ५०० रूप्यकाणि नगदं पाटलिपुत्र-सामाजिकविज्ञान-अनुसन्धान-संस्थानतः प्रदत्तानि। सर्वेभ्यः प्रतिभागिभ्यः सारण-जिलाप्रशासनतः प्रस्तुति-पत्राणि दत्तानि।

उभययोः प्रतियोगितयोः संचालनं विख्यात-युवा-क्विझ्-मास्टर-भंवरकिशोरः अकरोत्। अस्मिन् अवसरि विश्वविद्यालयस्य परीक्षा-नियन्ता डॉ० अशोकमिश्रः, समन्वयकः डॉ० अजीततिवारी, शोधछात्रः सोनूयादवः च उपस्थिताः आसन्।

कार्यक्रमस्य समन्वयकः डॉ० ब्रजकिशोरः आगतान् अतिथीन् स्वागत्य तेषां सहभागितायाः कृते

आभारं व्याहरत्।

---------------

हिन्दुस्थान समाचार