Enter your Email Address to subscribe to our newsletters
रायपुरम् 2 अक्टूबरमासः (हि.स.)। मुख्यमंत्री विष्णुदेवसायः अद्य गुरुवासरे राजधानीरायपुरे स्थिते मुख्यमंत्रीनिवासकार्यालये राष्ट्रपितुः महात्मगान्धेः पूर्वप्रधानमन्त्रिणः च स्वर्गीयलालबहादुरशास्त्रिणः जयन्त्यां तयोः छायाचित्रे पुष्पाणि समर्प्य नमः कृतवान्।
मुख्यमंत्री सायः उक्तवान् यत् महात्मा गान्धी सत्याहिंसयोः मार्गेण देशस्य स्वातन्त्र्यआन्दोलनं नूतनदिशां प्रदत्तवान्। गान्धेः जीवनं अस्मान् एतत् सन्देशं ददाति यत् दृढनिष्ठया सत्याग्रहस्य मार्गेण दुष्करस्थितीनामपि सामना कर्तुं शक्यते। अवदत् च यत् अद्यापि गान्धेः विचाराः समाजाय उत्तमदिशां दातुं उपयोगिनः सन्ति, अस्माकं सर्वेषां च तस्मात् प्रेरणा लभ्यते।
पूर्वप्रधानमन्त्रिणं स्वर्गीयं लालबहादुरशास्त्रिणं स्मरन् मुख्यमंत्री सायः उक्तवान् यत् शास्त्री स्वस्य सार्वजनिकजीवने सादगीं सेवां च सर्वोपरि स्थितवान्। सः “जय जवान जय किसान” इति नादं दत्वा जनतानां मनोबलं वर्धितवान्। मुख्यमंत्री सायः अवदत् यत् शास्त्रीजेः निष्ठा ईमान्दारता च सदा नागरिकान् प्रेरयिष्यतः।
अस्मिन् अवसरे छत्तीसगढखाद्यनागरिक-आपूर्तिनिगमस्य अध्यक्षः संजयश्रीवास्तवः अपि उपस्थितः आसीत्।
---------------
हिन्दुस्थान समाचार