विजयादशम्यां मुख्यमंत्री अददात् शुभकामनाः
पटना, 2 अक्टूबरमासः (हि.स.)।विजयादशम्याः शुभसन्धर्भे मुख्यमन्त्री नीतीशकुमारः प्रदेशवासिभ्यः हार्दिकं अभिनन्दनं शुभाशिषं च दत्तवान्। ते उक्तवन्तः यत् विजयादशमी असत्ये सत्यस्य विजयस्य प्रतीकः अस्ति। अयं पर्वः संयमं, आत्मबलं, सकारात्मकशक्तिं च जनयति।
पटना सीटी के पटनदेवी मंदिर में पूजा-अर्चना करते मुख्यमंत्री नीतीश


पटना, 2 अक्टूबरमासः (हि.स.)।विजयादशम्याः शुभसन्धर्भे मुख्यमन्त्री नीतीशकुमारः प्रदेशवासिभ्यः हार्दिकं अभिनन्दनं शुभाशिषं च दत्तवान्।

ते उक्तवन्तः यत् विजयादशमी असत्ये सत्यस्य विजयस्य प्रतीकः अस्ति। अयं पर्वः संयमं, आत्मबलं, सकारात्मकशक्तिं च जनयति।

मुख्यमन्त्रिणा स्वसन्देशे उक्तम् यत् विजयादशमी “विजयपर्व” इति रूपेण आचर्यते, यः अस्मान् धर्मे, न्याये, सद्भावने च मार्गे गन्तुं प्रेरयति। अयं पर्वः समाजे भ्रातृत्वम्, सौहार्दम्, ऐक्यमिति भावनां दृढीकुरुते।

ते सर्वान् प्रार्थितवन्तः यत् सर्वे जनाः एतत् पर्वं शान्तिपूर्वकं हर्षोल्लासेन च आचरेयुः, परस्परं प्रेमसौहार्दयोः सन्देशं समाजे प्रसारयेयुः च।

मुख्यमन्त्रिणा विश्वासः व्यक्तः यत् एषः पर्वः सर्वेषां जीवने सुखं, शान्तिं, समृद्धिं च आनेष्यति।

---------------

हिन्दुस्थान समाचार