Enter your Email Address to subscribe to our newsletters
मुख्यमंत्री डाॅ. यादवो 'राष्ट्रिय स्वयंसेवक संघस्य' गौरवशालिषु 100 वर्षेषु पूर्णेषु सर्वेभ्यः स्वयंसेवकेभ्योऽददात् शुभकामनाः
भाेपालम्, 2 अक्टूबरमासः (हि.स.)।राष्ट्रियस्य स्वयंसेवकसंघस्य स्थापना-सप्ततिशततमं वर्षं सम्पूर्णं जातम्। संघः आद्यकालात् एव राष्ट्रभक्तेः सेवायाश्च पर्यायः अभवत्। मध्यप्रदेशस्य मुख्यमन्त्री डा॰ मोहनयादवः राष्ट्रीयस्वयंसेवकसंघस्य गौरवपूर्णशतवर्षसमाप्तौ सर्वेभ्यः स्वयंसेवकेभ्यः शुभाशंसाः दत्तवान्।
मुख्यमन्त्री डा॰ यादवः गुरुवासरे सामाजिक-माध्यमे X इत्यस्मिन् पोस्टं कृत्वा स्वसन्देशे लिखितवान् — तेरा वैभवः अमरः अस्तु मातः, वयं दिनचत्वारः सन्तु वा न सन्तु... इति।
राष्ट्रभक्तेः, सेवायाः, अनुशासनस्य, व्यक्तित्वनिर्माणस्य च प्रेरणाकेंद्रं राष्ट्रीयस्वयंसेवकसंघम् इत्यस्य गौरवशतवर्षसमाप्तौ सर्वेभ्यः स्वयंसेवकेभ्यः हृदयपूर्वकं अभिनन्दनं शुभकामनाः च। एषः सर्वेषां अस्माकं गर्वस्य क्षणः अस्ति, यतः अद्य वयं संघशताब्देः साक्षिणः स्मः। अस्य यात्रायां मध्यप्रदेशस्य अपि अप्रतिमं योगदानम् अस्ति।
मुख्यमन्त्री डा॰ यादवः अग्रे उक्तवान् — @RSSorg इत्यनेन संस्थापकालात् एव जनजनस्य मध्ये राष्ट्रीयचेतना दायित्वबोधं च संचारितम्। भारतस्य स्वर्णिमस्य विकसितस्य राष्ट्रस्य निर्माणाय मार्गः प्रशस्तः कृतः। अस्माकं गर्वकारणं यत् अस्याः शताब्द्याः अन्तराले भारतस्य यः भव्यः पुनर्निर्माणः जातः, तस्य नीवेः अपि संघः अस्ति, प्राचीरे अपि संघः अस्ति, शिखरे अपि संघस्यैव प्रकाशः अस्ति।
वन्दे
मातरम्!
---------------
हिन्दुस्थान समाचार