केन्द्रीयमन्त्री शिवराजसिंहः चौहानः अद्य विदिशारायसेनजनपदयोः प्रवासे अस्ति
भोपालम्, 02 अक्टूबरमासः (हि.स.)। केन्द्रीयः कृषि-किसानकल्याण-ग्रामीणविकास-मन्त्री शिवराजः सिंहः चौहानः अद्य गुरुवासरे मध्यप्रदेशस्य विदिशा-रायसेन-जनपदयोः प्रवासे भविष्यति। अस्मिन् अवसरे ते बेगमगञ्ज-सुल्तानपुर-रायसेन-मण्डीदीप-प्रदेशेषु आयोजितेषु दशहरा
शिवराज सिंह चौहान


भोपालम्, 02 अक्टूबरमासः (हि.स.)। केन्द्रीयः कृषि-किसानकल्याण-ग्रामीणविकास-मन्त्री शिवराजः सिंहः चौहानः अद्य गुरुवासरे मध्यप्रदेशस्य विदिशा-रायसेन-जनपदयोः प्रवासे भविष्यति। अस्मिन् अवसरे ते बेगमगञ्ज-सुल्तानपुर-रायसेन-मण्डीदीप-प्रदेशेषु आयोजितेषु दशहरा-कार्यक्रमेषु सम्मिलिष्यते।

नियत-कार्यक्रमानुसारं केन्द्रीयः कृषिमन्त्री चौहानः प्रातः 11 वादने भोपालात् प्रस्थित्य द्वादशवादनं विदिशां प्राप्स्यति। अत्र अपराह्ण 3 वादनपर्यन्तं कालः आरक्षितः भविष्यति। ततः परं सः अपराह्ण 3.15 वादने राजपूत-धर्मशालायां विदिशायाम् आयोजिते कार्यक्रमे भागं ग्रहीष्यति।

केन्द्रीयः मन्त्री चौहानः सायं 4.30 वादने विदिशात् प्रस्थित्य सायं 5.30 वादने रायसेन-जिलस्य बेगमगञ्जं प्राप्य दशहरा-कार्यक्रमे सम्मिलिष्यति। ततः परं केन्द्रीयः मन्त्री चौहानः रात्रौ 7.30 वादने सुल्तानपुरे, रात्रौ 9 वादने रायसेने, रात्रौ 11 वादने मण्डीदीपे आयोजितेषु दशहरा-कार्यक्रमेषु सम्मिलिष्यते।

केन्द्रीयः मन्त्री रात्रौ 11.30 वादने मण्डीदीपात् भोपालं प्रति प्रस्थित्य प्रवासं समाप्तं करिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता