Enter your Email Address to subscribe to our newsletters
रायपुरम्, 2 अक्टूबरमासः (हि.स.)।छत्तीसगढ़विधानसभायाः अध्यक्षः डॉ० रमनसिंहः पर्यटनमन्त्रि च राजेश अग्रवालः अद्य गुरुवासरे राजनांदगांव-डोंगरगढनगरयोः पर्यटकसूचनाकेन्द्रयोः शुभारम्भं करिष्यतः। छत्तीसगढ़-पर्यटनमण्डलेन राजनांदगांवनगरे अस्य शुभारम्भस्य निमित्तं सर्वाः सज्जताः पूर्णाः कृताः।
शुभारम्भसमारोहो राजनांदगांवस्य गौरवपथस्थिते चौपाट्यां सायं पञ्चवादने भविष्यति। कार्यक्रमे अति-विशिष्ट-अतिथिरूपेण विद्यालय-शिक्षामन्त्री गजेन्द्र यादवः, लोकसभासांसदः सन्तोष पाण्डेय च भागं ग्रहीष्यतः। कार्यक्रमे राजनांदगांव-डोंगरगढनगरयोः पर्यटकसूचनाकेन्द्रयोः लोकार्पणं भविष्यति।
पर्यटकसूचनाकेन्द्रैः पर्यटकानां यात्रामार्गः, निवाससुविधा, धार्मिक-ऐतिहासिकस्थानानि, स्थानिकीया कला-संस्कृतिश्च सरलरूपेण प्रदास्यते। अस्मात् पर्यटनगतिविधीनां प्रोत्साहनं स्थानीय-अर्थव्यवस्थायाश्च सुदृढीकरणं सहायं भविष्य
ति।
हिन्दुस्थान समाचार