Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 20 अक्टूबरमासः (हि. स.)। मुख्यमंत्री पुष्करसिंहधामी
सोमवासरे राजभवनम् आगत्य राज्यपालं सेवानिवृत्तलेफ्टिनेन्टजनरल् गुरमीतसिंहं प्रति शिष्टाचारमेलनम् अकरोत्। तस्मै दीपावल्याः पावनपर्वणः शुभाशंसाः दत्तवान्। राज्यपालेनापि मुख्यमन्त्रिणे दीपावलीशुभकामनाः प्रदत्ताः, प्रदेशजनानां सुखशान्तिसमृद्धिप्रगतिश्च अभिलषिता।
सोमवासरे एव राजभवने राज्यपालं प्रति प्रदेशमन्त्रिगणेशजोशी, डॉ. धनसिंहरावतः, सौरभबहुगुणा, सुबोधउनियालः, पूर्वमुख्यमंत्री हरिद्वारसांसदश्च त्रिवेन्द्रसिंहरावतः, भारतीयजनतापक्षाध्यक्षः राज्यसभासांसदश्च महेन्द्रभट्टः, दूनविश्वविद्यालयकुलपत्नी सुरेखाडंगवालः, वरिष्ठाधिकारीगणाः अन्ये च गणमान्यव्यक्तयः सन्दर्शितवन्तः।
राज्यपालः सर्वान् दीपोत्सवस्य अभिनन्दनं कृत्वा उक्तवान् यत् दीपावली उज्ज्वलता, सकारात्मकता, सामूहिकसुखसमृद्धेः प्रतीकः अस्ति। सः सर्वान् प्रेम, सहयोग, सद्भावेन च एतत् महापर्वं उत्साहेन अनुष्ठेयं इति आह्वानं च अकरोत्।
हिन्दुस्थान समाचार / अंशु गुप्ता