मुख्यमन्त्रिणा पुष्करसिंहेन धामिना आपदाग्रस्तेषु जनेषु मध्ये दीपावलिः उत्सवेन सह आचिता। सः अवदत्— सर्वकारः सर्वदा आपदापीडितपरिवारैः सह स्थिता अस्ति।
दीपावलिः केवल प्रकाशस्य उत्सवः न, अपि तु संवेदनानां एकतायाश्च पर्व अस्ति। मुख्यमन्त्रिणा आपदाग्रस्तप्रदेशे चलद्भिः पुनर्निर्माणकार्यैः सह स्थलसमिक्षणं अपि कृतम्। देहरादूनम्, 20 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी सोमवारे दीपावलिपर
मुख्यमंत्री धामी  सहस्त्रधारा स्थित मझाड़ा गांव में आपदा प्रभावितों  के संग।


मुख्यमंत्री पुष्कर सिंह धामी दीपावली पर्व पर सहस्त्रधारा स्थित मझाड़ा गांव  देहरादून पहुंचकर आपदा प्रभावितों संग।


दीपावलिः केवल प्रकाशस्य उत्सवः न, अपि तु संवेदनानां एकतायाश्च पर्व अस्ति।

मुख्यमन्त्रिणा आपदाग्रस्तप्रदेशे चलद्भिः पुनर्निर्माणकार्यैः सह स्थलसमिक्षणं अपि कृतम्।

देहरादूनम्, 20 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी

सोमवारे दीपावलिपर्वणि सहस्त्रधारायां मझाडाग्रामं प्रति आगत्य आपदाग्रस्तैः सह दीपावलिं आचरितवान्। तस्मिन् समये मुख्यमन्त्रिणा तेषां समस्याः श्रुताः, तेषां समाधानाय आश्वासनं दत्तं च। सः अवदत् — “आपदया प्रभावितस्य प्रत्येकं जनस्य पीडा सर्वकारस्य एव पीडा अस्ति। कस्यापि परिस्थितौ बालानां शिक्षा न विघ्नितव्या।”

संवेदनशीलतायाः अपनत्वस्य च दृष्टान्तं स्थापयन् मुख्यमन्त्री स्वदीपावलिं आपदाग्रस्तपरिवाराणां मध्ये गत्वा अचिनोत्। सः स्वयमेव तेषां गृहाणि गतः, यत्र बहुसंख्याः नार्यः, बालकाः, ग्रामवासिनश्च उपस्थिताः आसन्। मुख्यमन्त्रिणा ग्रामवासिनां आग्रहानुसारं अधिकारिभ्यः नदीसंरक्षणाय (रिवर ट्रेनिंग) आदेशः दत्तः। ग्रामस्य सुरक्षायाः निमित्तं सुरक्षा-प्राचीरनिर्माणकार्ये तीव्रता वर्धयितुं अपि आदेशः दत्तः।

मुख्यमन्त्रिणा आपदाग्रस्तपरिवाराणां वस्तुस्थितिः ज्ञाता, । आपदया प्रभावितस्य प्रत्येकं जनस्य पीडा, सर्वकारस्य एव पीडा अस्ति।”

मुख्यमन्त्रिणा प्रभावितप्रदेशे चलद्भिः पुनर्निर्माणकार्यैः सह स्थलसमिक्षणं कृतम्। अधिकारिणः प्रति आदेशः दत्तः — “आपदाग्रस्तप्रदेशेषु पुनर्निर्माणकार्याणि शीघ्रगत्याः सम्पाद्यन्ताम्, यथा प्रभावितपरिवाराणां शीघ्रं राहतं प्राप्तुं शक्येत।” सः अवदत् — “आपदया कस्यापि परिस्थितौ बालानां शिक्षा न अवरुद्धा भवेत्। येषां गृहाणि आपदया क्षतिग्रस्तानि, तेषां कृते वैकल्पिकनिवासव्यवस्था प्राथमिकतया क्रियते। ये च परिवाराः किरायगृहेषु वसन्ति, तेषां कृते निर्धारितमानकानुसारं किरायभरणव्यवस्था अपि कृतव्या।” मुख्यमन्त्रिणः आगमनात् आपदाग्रस्तपरिवाराः प्रसन्नाः अभवन्। स्थानीयजनाः अवदन् — “मुख्यमन्त्रिणः एष आगमनं दीपावलिसमये च अस्माकं क्लेशकाले साहसवर्धकं भवति।” मुख्यमन्त्री अवदत् — “दीपावली केवलं प्रकाशस्य न, किन्तु संवेदनानां एकतायाश्च उत्सवः अस्ति। अस्माकं जीवनमपि आशा–हास्ययोः ज्योत्या निरन्तरं प्रकाशितं भवेत्।” अस्मिन् अवसरे मन्त्रिमण्डलसदस्यः गणेशजोशी, गढवालकमिश्नरः विनयशङ्करपाण्डेयः अन्ये च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता