Enter your Email Address to subscribe to our newsletters
उज्जैनम्, 20 अक्टूबरमासः (हि.स.)।
मध्यप्रदेशस्य उज्जयिन्यां सोमवासरे दीपोत्सवमहापर्वणः अवसरस्य निमित्तं प्रातःकाले भस्मआरत्यां समये भगवान् महाकालेश्वरस्य विधिवत् पंचामृताभिषेकः कृतः। अभिषेकानन्तरं महाकालेश्वरमन्दिरस्य पुजारिपरिवारस्य स्त्रीभिः भगवानं प्रति उबटनं लेपितम्। ततः परं भाङ्गशृङ्गारं कृत्वा भगवान् महाकालेश्वरः भव्यरूपेण अलङ्कृतः। दीपोत्सवमहापर्वणः उपलक्ष्ये सर्वप्रथमं अन्नकूटभोगः अर्पितः, ततो आरती सम्पन्ना। अस्मिन् अवसरे मन्दिरपरिसरे भक्तानां उपस्थानेन अत्यन्तं भक्तिमयम् वातावरणम् अभवत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता