Enter your Email Address to subscribe to our newsletters
उज्जैन, 20 अक्टूबरमासः (हि.स.)।शीतकालारम्भसमये सोमवासरे भगवतः श्रीमहाकालेश्वरस्य स्नानं उष्णजलेन आरब्धम्।
सोमदिने दीपोत्सव-महापर्वस्य अवसरः आसीत्। तस्मिन् अवसरः प्रभाते भगवतः श्रीमहाकालेश्वरस्य पंचामृताभिषेकः कृतः।
तस्मिन् समये महाकालेश्वरमन्दिरस्य पुजारिपरिवारस्य स्त्रीभिः सुगन्धिद्रव्यचन्दनतैलेन च भगवानाम् अभ्यङ्गस्नानं कृतम्।
अनन्तरं सुपार्या भगवतः दृष्टिदोषम् अपहर्तुं कर्पूरारती च कृता।
ततः रुद्रसूक्तपाठः सम्पन्नः।
---------------
हिन्दुस्थान समाचार