हर्षस्य पर्वास्ति इयं दीपावली महंत रविंद्रपुरी
हरिद्वारम्, 21 अक्टूबरमासः (हि.स.)।अखिलभारतीयअखाडापरिषद्‌, मनसादेवीमन्दिरसमितेः एस्‌.एम्‌.जे.एन्‌.महाविद्यालय–प्रबन्धसमितेः च अध्यक्षः महन्तः रविन्द्रपुरी–महाराजः सर्वेभ्यः दीपावल्याः शुभकामनाः दत्त्वा उक्तवान् यत् — “दीपावली आनन्दस्य, हर्षस्य च
दीवाली मिलन समारोह


हरिद्वारम्, 21 अक्टूबरमासः (हि.स.)।अखिलभारतीयअखाडापरिषद्‌, मनसादेवीमन्दिरसमितेः एस्‌.एम्‌.जे.एन्‌.महाविद्यालय–प्रबन्धसमितेः च अध्यक्षः महन्तः रविन्द्रपुरी–महाराजः सर्वेभ्यः दीपावल्याः शुभकामनाः दत्त्वा उक्तवान् यत् — “दीपावली आनन्दस्य, हर्षस्य च पर्वः अस्ति।”

मङ्गलवारे एस्‌.एम्‌.जे.एन्‌.महाविद्यालये आयोजिते दीपावली–मिलन–समारम्भे महन्तः रविन्द्रपुरी–महाराजः अन्यैः अतिथिभिः सह दीपप्रज्वलनं कृत्वा उत्सवस्य शुभारम्भं कृतवान्।

अस्मिन् अवसरे महन्तेन उक्तं यत् सनातन–धर्म–संस्कृत्याः अन्तर्गताः ये पर्वाणि आचर्यन्ते, ते केवलं आनन्ददायकाः न, किन्तु समाजाय सन्देशप्रदायकाः अपि भवन्ति। देशभरि एकता–सौहार्दभावाभ्यां सह आचर्यमाणा दीपावली प्रेरणादायिनी च अस्ति।”

ते पुनः अवदन् यत्“युव–संततिः पाश्चात्य–सभ्यतायाः प्रभावात् दूरं स्थित्वा, अस्मिन् पर्वेषु निहितान् सन्देशान् आत्मसात् कृत्वा भारतीय–संस्कृतिम् संस्कारांश्च आङ्गीकर्तुम् अर्हति।

कार्यक्रमे महन्तेन एतदपि उद्घोषितं यत् “महाविद्यालये युवा–वर्गस्य हिताय निःशुल्कं पत्रकारिता–पाठ्यक्रमः आरब्धो भविष्यति।

महाविद्यालयस्य प्राचार्यः प्रोफेसर् सुनील–कुमार–बत्रा इत्यपि अवदत् यद्अत्र महाविद्यालये अध्यापकाः छात्र–छात्राणां चरित्र–निर्माणे निर्णायकभूमिकां वहन्ति।”

दीपावल्याः शुभकामनाः दत्त्वा प्रो. बत्रा उक्तवान्यद्

“युव–वर्गेण दीपावली–पर्वस्य महत्त्वं ज्ञातव्यं, तस्य सन्देशः आत्मसात् कर्तव्यश्च।”

कार्यक्रमे वरिष्ठ–पत्रकारः राकेश–वालिया, युवा–पत्रकारः महताब् आलम् इत्युभौ गान–प्रस्तुतीं कृतवन्तौ।

अन्ते वरिष्ठ–पत्रकारः डॉ. रजनीकान्त–शुक्लः, संजय–आर्यः, सुनीलदत्त–पाण्डेयः, डॉ. हिमांशु–द्विवेदीः, ज्ञानप्रकाश–पाण्डेयः च अपि स्व–विचारान् अवोचन्। एवं स उत्सवः श्रद्धया, संस्कृति–गौरवेन, युव–प्रेरणया च समन्वितः अभवत्॥

---------------

हिन्दुस्थान समाचार