पुलिस स्मृति दिवसे समाहूतपुलिसकर्मिभ्योऽददात् श्रद्धांजलिं, परिजना सम्मानिताः
बांदा, 21 अक्टूबरमासः (हि.स.)। पुलिसस्मृतिदिवसस्य अवसरे बाँदाजिलायां भावनात्मकवातावरणे वीरपुलिसकर्मिणां प्रति श्रद्धांजलि अर्पिता, येषां प्राणदानं देशसमाजसेवायै कृतम्। अस्मिन अवसरे चित्रकूटधामपरिक्षेत्रस्य पुलिसउपमहानिरीक्षकः राजेश् एस्, पुलिसअधी
शहीदों को श्रद्धांजलि देते हुए डीआईजी


बांदा, 21 अक्टूबरमासः (हि.स.)।

पुलिसस्मृतिदिवसस्य अवसरे बाँदाजिलायां भावनात्मकवातावरणे वीरपुलिसकर्मिणां प्रति श्रद्धांजलि अर्पिता, येषां प्राणदानं देशसमाजसेवायै कृतम्।

अस्मिन अवसरे चित्रकूटधामपरिक्षेत्रस्य पुलिसउपमहानिरीक्षकः राजेश् एस्, पुलिसअधीक्षकः बाँदा पलाशबंसलः, च सर्वे राजपत्रिताः अधिकारी पुलिसकर्मिणश्च पुलिसलाइन बाँदायां आयोजिते परेडसमारोहे सम्मिलिताः।

सर्वे अधिकारीः शहीदपुलिसकर्मिणां स्मृत्यै पुष्पचक्रमर्पणेन श्रद्धांजलिं अर्पितवन्तः।

डी.आई.जी. राजेश् एस् अस्मिन अवसरि मुख्यमन्त्री उत्तरप्रदेशस्य तथा पुलिसमहानिदेशक उत्तरप्रदेशस्य सन्देशं पठित्वा श्रुत्वा गतवर्षे कर्तव्यपालने शहीदाः भवान्तः पुलिसअधिकारीणां कर्मचारीणां शौर्यगाथां स्मृत्वा अवदत् –

“पुलिसबलस्य एते वीराः अस्माकं आदर्शाः, येषां देशजनसुरक्षायै सर्वोच्चबलिदानं जातम्।”

समारोहे शहीदपुलिसकर्मिणां परिवाराणां आमन्त्रणं कृत्वा सम्मानितम्।

एतस्मिन अवसरि अपरपुलिसअधीक्षकः बाँदा शिवराजः थाना फतेहगंजक्षेत्रे बघेलाबारीस्थितं शहीदस्मारकं गत्वा शहीदपुलिसकर्मिणां प्रति श्रद्धांजलिं अर्पितवन्तः।

डी.आई.जी. राजेश् एस् अवदत् – १ सितम्बर २०२४ तः ३१ अगस्त २०२५ पर्यन्तं राष्ट्रे १८६ पुलिसकर्मिणः कर्तव्यपालनस्य मध्ये वीरगति प्राप्तवन्तः।

तेषु उत्तरप्रदेशपुलिसस्य तीन वीराः निरीक्षकः स्व० सुनीलकुमारः (एस.टी.एफ्), मुख्यारक्षी स्व० दुर्गेशकुमारसिंहः (जौनपुर) च आरक्षी स्व० सौरभकुमारः (गौतमबुद्धनगर) प्रमुखाः।

---------------

हिन्दुस्थान समाचार