मुख्यमन्त्रिणा डॉ. यादवेन गोवर्धन–पूजायां प्रदेशवासिभ्यः शुभाशंसनम्
भाेपालम्, 22 अक्टूबरमासः (हि.स.)। मध्य–प्रदेशे गोवर्धन–पूजा अत्यन्तेन उत्साहेन, उल्लासेन च आचर्यते। मुख्यमन्त्री डॉ. मोहनयादवः गोवर्धन–पूजा–अवसरे प्रदेशवासिभ्यः शुभाशंसनं दत्तवन्तः। मुख्यमन्त्रिणा डॉ. यादवेन सामाजिक–माध्यमे “एक्स” इति पटले लिखितं
मुख्यमंत्री डॉ. यादव ने गोवर्धन पूजा पर प्रदेशवासियों को दी शुभकामनाएं


भाेपालम्, 22 अक्टूबरमासः (हि.स.)। मध्य–प्रदेशे गोवर्धन–पूजा अत्यन्तेन उत्साहेन, उल्लासेन च आचर्यते। मुख्यमन्त्री डॉ. मोहनयादवः गोवर्धन–पूजा–अवसरे प्रदेशवासिभ्यः शुभाशंसनं दत्तवन्तः।

मुख्यमन्त्रिणा डॉ. यादवेन सामाजिक–माध्यमे “एक्स” इति पटले लिखितं यत् गोवर्धन धराधार गोकुल–त्राण–कारक।

विष्णु–बाहु–कृतोच्छ्राय गवां कोटि–प्रभो भव।।

गोवर्धन–पूजायाः हार्दिकाः शुभकामनाः। प्रकृतेः प्रति कृतज्ञतायाः अस्य पावन–पर्वस्य अवसरः अस्ति।

भगवान् श्रीकृष्णः, गौ–माता च सर्वेषां जीवनं समृद्धं सुख–पूर्णं च कुर्वाताम्।

राजधानी–भोपाल–नगरे कमला–नगर–प्रदेशे अद्य बुधवासरे सहज–समाधान–शिक्षा–समितेः तत्वावधाने २१ फुट् उन्नता भगवान्–गोवर्धन–प्रतिमा प्रतिष्ठाप्यते। दश–क्विंटल–द्रव्य–निर्मिता अस्य प्रतिमायाः पुरतः छप्पन–भोगः अर्पयिष्यते। पूजायाः अनन्तरं भगवान् गिरिराजस्य परिक्रमा अपि करिष्यते।

सायं काले अन्नकूट–महोत्सवः तथा भजन–सन्ध्या इत्येतयोः आयोजनेन कार्यक्रमः सम्पन्नः भविष्यति।

---------------

हिन्दुस्थान समाचार