मुख्यमन्त्री डॉ. यादवः अमरक्रान्तिकारी अशफाक उल्ला खाँ जयन्त्यां नमनं कृतवन्तः
भाेपालम्, 22 अक्टूबरमासः (हि.स.)।मातुः भारत्याः स्वतंत्रतायै आंग्लशासनस्य विरुद्धं संग्राम्य स्वप्राणानाम् आहुति दत्तवन्तः महान् स्वतन्त्रता–सेनानी अशफाक उल्ला खाँ इत्यस्य अद्य बुधवासरे जयन्ती अस्ति। अस्य अवसरस्य निमित्तं मुख्यमन्त्री डॉ. मोहनयादवः
मुख्यमंत्री डॉ. यादव ने अमर क्रांतिकारी अशफाक उल्ला खां को जयंती पर किया नमन


भाेपालम्, 22 अक्टूबरमासः (हि.स.)।मातुः भारत्याः स्वतंत्रतायै आंग्लशासनस्य विरुद्धं संग्राम्य स्वप्राणानाम् आहुति दत्तवन्तः महान् स्वतन्त्रता–सेनानी अशफाक उल्ला खाँ इत्यस्य अद्य बुधवासरे जयन्ती अस्ति। अस्य अवसरस्य निमित्तं मुख्यमन्त्री डॉ. मोहनयादवः तस्य वीरतां स्मरन् विनम्रं नमनं कृतवन्तः।

मुख्यमन्त्री डॉ. यादवः सामाजिक–माध्यमे एक्स इत्यस्मिन् पटले स्वसन्देशे लिखितवन्तः यत्

देशस्य स्वतंत्रतायै जीवनं समर्प्य अमरः क्रान्तिकारी अशफाक उल्ला खाँ इत्यस्य जयन्त्याम् अहं कोटि–कोटि नमनं करोमि। ‘काकोरी ट्रेन एक्शन’ इत्यस्य नायकस्य त्यागः, साहसम्, राष्ट्र–प्रेम च आगामि–सन्ततिभ्यः नित्यं देश–सेवायै प्रेरणां दास्यति।

---------------

हिन्दुस्थान समाचार