गोशालायां गोभ्यः गुडं प्रदाय जिलाधिकारीगोवर्धनपूजनं कृतवान्
जौनपुरम्, 22 अक्टूबरमासः (हि.स.)। गोवर्धनपूजनस्य अवसरपरं बुधवासरे जिलाधिकारी डा० दिनेशचन्द्रः शाहगंज-उपजिलायाः सीधाई ग्रामस्थितां गोशालां परिभ्रम्य अवलोकनं कृतवान्। तस्मिन् समये सः गौमातरं विधिवत् पूजयामास, ताम् गुडं, कदलीफलानि, हरितं च चारं प्रदाय
बच्चों को चॉकलेट और मिष्ठान देते हुए जिलाधिकारी


गोवर्धन पूजा पर जिलाधिकारी डॉ दिनेश चंद्र सिंह गायों को गुड खिलते हुए


जौनपुरम्, 22 अक्टूबरमासः (हि.स.)। गोवर्धनपूजनस्य अवसरपरं बुधवासरे जिलाधिकारी डा० दिनेशचन्द्रः शाहगंज-उपजिलायाः सीधाई ग्रामस्थितां गोशालां परिभ्रम्य अवलोकनं कृतवान्। तस्मिन् समये सः गौमातरं विधिवत् पूजयामास, ताम् गुडं, कदलीफलानि, हरितं च चारं प्रदाय आहारयामास।

जिलाधिकारी गोशालायां कार्यरतान् कार्मिकान् स्वच्छताकर्मचारिणश्च अंगवस्त्रैः सम्मान्य अभिनन्दितवन्तः। तेषां सेवाकार्याणि प्रति साधुवादं दत्तवन्तः।

अस्मिन् अवसरि जिलाधिकारी गो-आश्रयस्थानस्य व्यवस्थाः निरीक्ष्य अवलोकितवन्तः। तेन उक्तं यत् गोवर्धनपूजनस्य उपलक्ष्ये जनपदस्य सर्वासु गोशालासु गोपूजनकार्यक्रमाः आयोजिता इति। तेन गोवंशस्य संरक्षणं संवर्धनं च प्रति जनान् जागरूकान् कृतवान्।

गोपूजनकार्यक्रमानन्तरं जिलाधिकारी उपस्थितबालकेभ्यः चॉकलेट् वितर्य तेषाम् उत्साहवर्धनं कृतवन्तः।

अस्मिन् कार्यक्रमे ग्रामवासीजनाः, स्थानीयप्रशासनाधिकृताः, बालकाः च अन्ये बहवः अपि जनाः उपस्थिताः आसन्। तदनुक्रमेण जनपदस्य अन्येषु गो-आश्रयस्थलेषु अपि नामित-नोडलाधिकारिणां पर्यवेक्षणे गोपूजनकार्यक्रमाः सम्पन्नाः।

-------------

हिन्दुस्थान समाचार / अंशु गुप्ता