गोवर्धनपूजनोत्सवस्य निमित्तं यदुवंशियैः शोभायात्रा आयोजिताऽभवत्, यत्र प्रदर्शन्यः आकर्षणस्य केन्द्रं जातम्
वाराणसी , 22 अक्टुबरमासः (हि.स.) ज्योतिपर्वणः दीपावल्यानन्तरं बुधवासरे केसरियपट्टसिरोवेष्टनं कृत्वा यदुवंशीयाः हथुआ-मार्केट-चेतगञ्जस्य मुख्यद्वारात् विशालां गोवर्धनपूजनोत्सव-शोभायात्रां निर्वहन्तः आसन्। गोवर्धनपूजा-समित्याः पताकायां नीताऽभवत् अखिलभ
गोवर्धन पूजनोत्सव  निकली विशाल शोभायात्रा में शामिल प्रदेश कांग्रेस अध्यक्ष


गोवर्धन पूजनोत्सव  निकली विशाल शोभायात्रा में शामिल प्रदेश कांग्रेस अध्यक्ष


गोवर्धन पूजनोत्सव  निकली विशाल शोभायात्रा में शामिल प्रदेश कांग्रेस अध्यक्ष


वाराणसी , 22 अक्टुबरमासः (हि.स.) ज्योतिपर्वणः दीपावल्यानन्तरं बुधवासरे केसरियपट्टसिरोवेष्टनं कृत्वा यदुवंशीयाः हथुआ-मार्केट-चेतगञ्जस्य मुख्यद्वारात् विशालां गोवर्धनपूजनोत्सव-शोभायात्रां निर्वहन्तः आसन्। गोवर्धनपूजा-समित्याः पताकायां नीताऽभवत् अखिलभारतीय-गोवर्धनपूजनोत्सव-शोभायात्रा, यस्य उद्घाटनम् उत्तरप्रदेशकाङ्ग्रेस्समितेः अध्यक्षेन अजयरायेन मलहनी-क्षेत्रस्य विधायकलकीयादवेन च संयुक्तरूपेण कृतम्। तौ च उत्साहपूर्वकं सम्मिलितौ आस्ताम्।

शोभायात्रायां समित्याः अध्यक्षः विनोदयादवः (गप्पू), श्रीप्रकाशयादवः, पारसनाथयादवः, जयप्रकाशयादवः, राजेशअहीरः, भोलायादवः, गोपालयादवः, शालिनीयादवा इत्यादयः नेतारः उपस्थिताः आसन्। तेषां सन्निधौ समाजस्य युवानः हर्षपूर्णवातावरणे ढोलनगारेषु नृत्त्वा पारम्परिकं मनरीकला (लट्ठबाजी) कौशलं प्रदर्शयन्तः आसन्।

शोभायात्रायां मथुरानगरात् आगतैः कलाकारैः कृतं रासनृत्यं, भगवान्कृष्णस्य जीवनसंबद्धा झाङ्क्यः, छत्तीसगढराज्यस्य आकर्षकझाङ्क्यः, शिवपार्वतीझाङ्क्यः, भगवान्बलरामश्रीकृष्णयोः झाङ्क्यः, गोपालबालानां टोली, भूतभावनभगवतः शंकरस्य अघोरिरूपं, “ऑपरेशन्-सिन्दूर” इति झाङ्क्याः, वीरअहिराणां रेजाङ्गलायुद्धं, वीरलोरिकस्य सिंहयुद्धं च इत्यादयः झाङ्क्यः पन्थानं गच्छन्तीनां जनानां मनांसि हरन्त्यः आसन्। पथयोः उभयतः झाङ्क्यादर्शनाय यादवसमाजस्य जनसमूहः अपि आविर्भूतः।

शोभायात्रायाः अग्रे-अग्रे विस्मयकारिणी आतिशबाजी इति अपि प्रदर्शिता। मार्गे मार्गे स्वागतार्थं तोरणद्वाराः सज्जिताः आसन्। मार्गमध्ये यादवसमाजस्य स्त्रियः वृद्धाश्च शोभायात्रायां पुष्पवर्षां कृतवन्तः। यादवबन्धवः अपि स्थले स्थले जलपानस्थापनानि कृत्वा यात्रासम्बद्धेभ्यः जनानां जलपानं प्रदानं च अकुर्वन्। तत्र समित्याः सदस्येषु माल्यार्पणं चाङ्गवस्त्रप्रदानपूर्वकं सम्माननं च जातम्।

शोभायात्रा पारम्परिकमार्गेण लहुराबीर, पिपलानीकटरा, कबीरचौरा, मैदागिन, विशेश्वरगञ्ज, मच्छोदरी, प्रह्लादघाट, भैसासुरघाट, राजघाट-मार्गेण गोवर्धनधामं प्राप्तवती। तत्र समाजजनैः गोवर्धनधारिणं भगवानं पूजाऽर्चनं कृतम्। तत्र आयोजिते सांस्कृतिककार्यक्रमे समाजवादीपक्षस्य राष्ट्रीयमहासचिवः शिवपालसिंहयादवः, प्रदेशराज्यमन्त्री गिरीशचन्द्रयादवः, अन्ये च विशिष्टजनाः मुख्यातिथिरूपेण उपस्थिताः आसन्। सायंकाले मंचे यादवसमाजस्य विशिष्टजनानां प्रति “गोवर्धनश्रीसम्मानः” इति पुरस्कारः प्रदास्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता