मुख्यमन्त्रिणा डॉ. यादवेन भारत–तिब्बत–सीमासुरक्षाबलस्य स्थापना–दिवसस्य अवसरे शुभाशंसाः समर्पिताः
भाेपालम्, 24 अक्टूबरमासः (हि.स.)। देशस्य सीमाः रक्षयन्तः भारत–तिब्बत–सीमासुरक्षाबलस्य (आईटीबीपी) वीराः अद्य शुक्रवासरे स्वस्य चतु:षष्टितमं स्थापना–दिवसम् आचरन्ति। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवेन आईटीबीपी–बलस्य सैनिकान् अभिनन
मुख्यमंत्री डॉ. यादव ने भारत-तिब्बत सीमा पुलिस बल के स्थापना दिवस पर दी शुभकामनाएं


भाेपालम्, 24 अक्टूबरमासः (हि.स.)। देशस्य सीमाः रक्षयन्तः भारत–तिब्बत–सीमासुरक्षाबलस्य (आईटीबीपी) वीराः अद्य शुक्रवासरे स्वस्य चतु:षष्टितमं स्थापना–दिवसम् आचरन्ति। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवेन आईटीबीपी–बलस्य सैनिकान् अभिनन्दनं शुभाशंसाः च समर्पिताः।

मुख्यमन्त्रिणा डॉ. यादवेन सामाजिकमाध्यमे “एक्स्” इत्यस्मिन् प्रदत्ते शुभकामना–सन्देशे उक्तम् यत् “समर्पण–कर्तव्यनिष्ठयोः अखण्डप्रतिज्ञया राष्ट्रस्य सुरक्षायै सततं सजगं भारत–तिब्बत–सीमासुरक्षाबलं प्रति स्थापना–दिवसस्य हार्दिकाः शुभकामनाः। साहस–शौर्य–पराक्रमैः समन्वितं स्वइतिहासेन गर्वयमानस्य अस्य बलस्य तेषां वीरानां प्रति नमनं, ये राष्ट्रार्थं स्वसर्वस्वं न्यवेदयन्।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता