Enter your Email Address to subscribe to our newsletters

भाेपालम्, 26 अक्टूबरमासः (हि.स.)।भक्त्याः, आस्थायाः, शुद्धतायाश्च प्रतीकः छठ्-महापर्वः सम्पूर्णे देशे महानया श्रद्धया आचर्यते। छठ्-पूजायाः द्वितीयः दिवसः “खरनादिवसः” इत्युच्यते, यः लोकआस्थायाः भक्तेः च प्रतीकः अस्ति। अस्मिन् दिने व्रतीनारीः दिवसम् अखिलं उपवासं कुर्वन्ति, सायंकाले पूजां कृत्वा प्रसादं गृह्णन्ति च। ततः षट्त्रिंशद्घण्टिकापर्यन्तं निर्जलव्रतं प्रारभ्यते।
मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहनयादवः खरनादिवसे सर्वेभ्यः श्रद्धालुभ्यः शुभाशंसां दत्तवान्।
मुख्यमन्त्रिणा सोशल् मीडिया एक्स इत्यस्मिन् लिखितं —“सूर्योपासना तथा लोकआस्थायाः पावनपर्वस्य छठस्य द्वितीयदिवसे ‘खरनायां’ बिहारराज्ये सहितं देशव्यापिनः सर्वे श्रद्धालवः प्रति हार्दिकबधाईः शुभकामनाश्च। सूर्यदेवतायाः छठीमैय्याश्च कृपया सर्वेषां गृहेषु सुखसमृद्धिसौभाग्यानां वर्षा भवतु। सर्वेषां मंगलं कल्याणं च सदा अस्तु — इति मम प्रार्थना। जय छठी मैया!”
---------------
हिन्दुस्थान समाचार