Enter your Email Address to subscribe to our newsletters

वाराणसी, 26 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य वाराणस्यां नगरे रविवासरे आयोजिते साइक्लोथान–२०२५ इत्यस्मिन् बालकाः युवकाश्च उत्साहेन उमङ्गेन च सहभागित्वं कृत्वा स्वास्थ्यरक्षणस्य पर्यावरणसंरक्षणस्य च सन्देशं दत्तवन्तः। सांसदक्रीडाप्रतियोगिता–काशी–२०२५ इत्यस्य अन्तर्गते जिला-प्रशासनद्वारा आयोजितायां अस्मिन् सायकिलदौरे प्रारम्भः उत्तरप्रदेशमहाविद्यालयस्य क्रीडाक्षेत्रात् अभवत्। कार्यक्रमस्य शुभारम्भः भारतीयजनतापक्षस्य वाराणसीजिलाध्यक्षेन विधानपरिषद्सदस्यम् हंसराजविश्वकर्मणा च जिलाधिकारी सत्येन्द्रकुमारेण च हरितपताका प्रदर्श्य कृतः।
अस्मिन् प्रतियोगे अष्टादशवर्षपर्यन्तं वा तस्मात् न्यूनवयस्काः बालकाः बहुसंख्यकाः सहभागी अभवन्। सायकिलयात्रा उत्तरप्रदेशमहाविद्यालयक्रीडाक्षेत्रात् आरभ्य भोजूबीर, अर्दलीबाजार, पुलिसलाइनचौराहा, मकबूलआलमरस्ता, चौकाघाटमार्गेण सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य मुख्यद्वारे समाप्ता। कार्यक्रमे सर्वत्र बालकानां विशेषः उत्साहः दृष्टः। मार्गपार्श्वस्थाः जनाः प्रतिभागिनां उत्साहवर्धनं कृतवन्तः। अस्मिन् अवसरे जिला-विद्यालयनिरीक्षकः, मूलशिक्षाधिकारी, उत्तरप्रदेशमहाविद्यालयप्रधानाचार्यः इत्यादयः अधिकारीणः शिक्षकाश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार