Enter your Email Address to subscribe to our newsletters

लखनऊ, 26 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य राज्यपालः आनंदीबेन पटेल तथा मुख्यमन्त्री योगी आदित्यनाथः छठ-महापर्वस्य अवसरं प्रति प्रदेशदेशयोः नागरिकेभ्यः हार्दिकं अभिनन्दनं शुभाशंसाश्च दत्तवन्तौ।
राज्यपालेन आनंदीबेन पटेल इत्यनया स्वस्य शुभकामना-सन्देशे उक्तम् यत् “पवित्रता–श्रद्धा–सूर्योपासना–सम्बद्धस्य अस्य महापर्वस्य छठस्य पावने अवसरि प्रदेशदेशयोः सर्वेभ्यः हार्दिकाः बधायः शुभाशंसाश्च। एषः पावनः पर्वः सर्वेषां जीवनानि ऊर्जस्वितया, समृद्ध्या, सद्भावेन च आलोकयतु। समाजे आस्था, अनुशासन, पर्यावरण-संरक्षणस्य मूल्यं च अधिकं प्रबलं भवतु।”
मुख्यमन्त्रिणा योगी आदित्यनाथेन अपि छठ-महापर्वस्य निमित्तं हार्दिकाः शुभाशंसाः प्रदत्ताः। तेन उक्तम् यत् “छठ-महापर्वः आस्था-परम्परयोः प्रतीकः तथा प्रकृतेः प्रति कृतज्ञतायाः अनुपमः उत्सवः अस्ति। छठव्रतं कुर्वतीनां मातॄणां बहूनां च तपः, अनुशासनं, अटूट-निष्ठा च सर्वेभ्यः प्रेरणादायिनी। एषः उत्सवः केवलं पूजायाः प्रतीकः न, किन्तु प्रकृत्या सह समरसतायाः च प्रतीकः अस्ति। नदीनां जलाशयानां च स्वच्छतया सम्बद्धः अयं पर्वः अस्मान् पर्यावरण-संरक्षणस्य प्रेरणां ददाति। अतः वयं सर्वे श्रद्धा–सेवा–भावनया छठ-पूजायां सहभागिनः भूत्वा आस्था–पर्यावरणयोः रक्षकाः भवेम।”
एवमेव राज्यस्य उपमुख्यमन्त्री केशवप्रसाद-मौर्यः अपि प्रदेशवासिनः अभिनन्द्य उक्तवान् यत् “अयं आत्मानुशासनस्य पर्वः अस्ति। जनाः शुद्ध–अन्तःकरणेन भगवानं सूर्यं प्रति अर्घ्यं समर्पयन्ति। छठ-महापर्वः संस्कृति–प्रकृति–सामाजिक–एकतायाः प्रतिबिम्बः अस्ति। घाटेषु अस्य अवसरस्य समये समाजस्य सर्ववर्गाः एकत्र स्थिताः दृश्यन्ते, यः देशस्य सामाजिक–एकतायाः श्रेष्ठतमः उदाहरणः अस्ति।”
उपमुख्यमन्त्रिणा भगवान् भाष्करं प्रति प्रार्थना अपि कृताः यत् “प्रदेशस्य प्रगत्यै, सुखाय, समृद्धये, शान्तये च आशीर्वादं ददातु।”
हिन्दुस्थान समाचार