Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वस्य मासिक-रेडियो-कार्यक्रमे ‘मन की बात’ इत्यस्मिन् छठ-महापर्वणः महत्त्वं प्रकाशितम्। तेन उक्तं यत् एषः पर्वः संस्कृति, प्रकृति, समाज च एतेषां मध्ये विद्यमानस्य गाढैक्यस्य प्रतीकः अस्ति।
‘मन की बात’ इत्यस्य १२७ तमे प्रसारणे प्रधानमन्त्रिणा उक्तं यत् छठ-घट्टेषु समाजस्य सर्ववर्गाः एकत्र मिलित्वा तिष्ठन्ति, यः भारतस्य सामाजिकैक्यस्य सुन्दरम् उदाहरणं प्रस्तुवन्ति। तेन देशवासिभ्यः आग्रहः कृतः यत् यदि अवसरः लभ्येत, तर्हि अस्मिन् पर्वे अवश्यमेव भागं गृह्यताम्। एषः पर्वः केवलं धार्मिक-आस्थायाः प्रतीकः नास्ति, अपि तु एषः भारतीय-समाजस्य एकतायाः समरसतायाश्च अपि प्रतीकः अस्ति।
---------------
हिन्दुस्थान समाचार