Enter your Email Address to subscribe to our newsletters

भोपालम्, 27 अक्तुबरमासः (हि.स.)। सर्वत्र देशे लोक-आस्थायाः महापर्व ‘छठपूजा’ उत्साहेन आचर्यते। अद्य सोमवासरे अस्य पर्वणः तृतीयदिनम् अस्ति, यस्मिन् दिने अस्तमयस्य सूर्यस्य अर्घ्यदानं क्रियते। तस्मात् व्रतिनः षष्ठघाटं प्रति गच्छन्ति। मध्यप्रदेशस्य मुख्यमन्त्री डा० मोहनयादवेन ‘छठपूजायाम्’ बिहारराज्यस्य सहितं सर्वेभ्यः नागरिकेभ्यः शुभकामनाः दत्ताः, सर्वेषां च जीवनमध्ये सुखसमृद्धिः भवतु इति कामना कृता।
मुख्यमन्त्रिणा एक्स् नामके सामाजिकमाध्यमे लिखितम् —
“भगवतः सूर्यस्य उपासना च लोक-आस्थायाः पावनपर्व च ‘छठपूजा’ अस्मिन् पर्वणि बिहारराज्येन सहितं सर्वेभ्यः नागरिकेभ्यः हार्दिक्यः शुभाशंसा: दत्ताः। एतत् दिव्यं पर्व मनुष्यस्य प्रकृतेः च मध्ये आस्थाकृतज्ञतासन्तुलनम् च इत्येतेषां प्रतीकम् अस्ति। अस्य महापर्वणः अवसरे अहं छठीमातृदेवीं प्रति प्रार्थये — एतत् दिव्यं पर्व सर्वेषां मातॄणां भगिनीनां देशवासिनां च जीवनमध्ये सुखसमृद्धिं शान्तिं च आनयतु। जय छठीमाता।”
हिन्दुस्थान समाचार / अंशु गुप्ता