पूर्व क्रीडकः श्रीकांतोऽकरोत् महाकाल दर्शनम्
उज्जैनम्, 27 अक्टूबरमासः (हि.स.)।भारतीय-क्रिकेट्-दलस्य पूर्व-कप्तानः कृष्णमाचारी-श्रीकान्तः सोमवासरस्य प्रातःकाले भगवान् श्रीमहाकालेश्वरस्य मन्दिरे भस्म-आरत्याः समये दर्शनलाभं प्राप्तवान्। भगवतः महाकालेश्वरस्य पूजन-अर्चनं पण्डितेन आकाश-गुरुणा सम्य
Former cricketer K Srikkanth visited Mahakal


उज्जैनम्, 27 अक्टूबरमासः (हि.स.)।भारतीय-क्रिकेट्-दलस्य पूर्व-कप्तानः कृष्णमाचारी-श्रीकान्तः सोमवासरस्य प्रातःकाले भगवान् श्रीमहाकालेश्वरस्य मन्दिरे भस्म-आरत्याः समये दर्शनलाभं प्राप्तवान्।

भगवतः महाकालेश्वरस्य पूजन-अर्चनं पण्डितेन आकाश-गुरुणा सम्यक् विधि-विधानपूर्वकं सम्पन्नम्।

अस्मिन् अवसरि श्रीमहाकालेश्वर-मन्दिर-प्रबन्ध-समितेः पक्षे भस्म-आरति-प्रभारी आशीष-दुबे-नामकः तं आदरपूर्वकं सम्मानितवान्।

श्रीकान्तः मन्दिरे स्थित-व्यवस्थापनस्य प्रशंसा कृत्वा भगवान् महाकालं प्रति देशवासिनां सुख-समृद्ध्यै कल्याणाय च प्रार्थनाम् अकरोत्।

---------------

हिन्दुस्थान समाचार