Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 27 अक्टूबरमासः (हि.स.)। भारतीयसेना–उत्तराखण्डशासनयोः संयुक्ततत्वावधानतः आयोजितः “देवभूमिसांस्कृतिकमहोत्सवः 2025” इत्यस्य समापनम् अद्य माणा–ग्रामे सम्पन्नम्।
अस्मिन् अवसरस्य प्रसङ्गे मुख्यमन्त्री पुष्करसिंहधामी महोदयः नृत्यसंगीतप्रस्तुतिनां विजेतॄन् सम्मान्य तेषां उत्कृष्टप्रतिभां सहभागितां च प्रशंस्य प्रेरितवन्तः। भारतीयसेनया उत्तराखण्डशासनं, स्थानीयसमुदायान्, समस्तान् आगन्तॄन् च प्रति हार्दिकं आभारं व्यक्तम्, येन एषः महोत्सवः ऐतिहासिकसफलतां प्राप्तवान्।
सेनया परम्परासंरक्षणे, जनसशक्तिकरणे, च एकताभावस्य संवर्धने देवभूमेः पावनधरण्यां पुनः स्वप्रतिबद्धता व्यक्ता। गढ़वालप्रदेशीयबैंड्स् च प्रसिद्धलोकगायकानां च मनोहराः प्रस्तुतयः सह भारतीयसेनाबैंडस्य प्रदर्शनं दर्शकान् मंत्रमुग्धं कृतवन्ति। “Know Your Army” नाम्नी प्रदर्शनी युवानां मध्ये देशभक्तेः भावनाम् संवर्धितवती, सेनासम्बन्धं च अधिकं दृढं कृतवती। तथैव अलकनन्दा–आरती उत्तराखण्डस्य आध्यात्मिकतेजः सजीवम् अकरोत्।
महोत्सवेन देवभूमेः जीवद्भूतां संस्कृतिं लोकनृत्येन, लोकसंगीत–हस्तशिल्प–पारम्परिकभोजन–पर्वतारोहणानुभवैः च साकारं कृतम्। गढ़वालप्रदेशीयशिल्पकार–कृषक–स्वसहाय–समूहैः संस्थापितेषु स्टालेषु हस्तनिर्मितवस्तूनि, पारम्परिकधरोहरसामग्री, जैविकउत्पादाः च प्रदर्शिताः, येभ्यः स्थानीयजनानाम् आजीविकायाः नूतनसन्धयः प्राप्ताः।
एषः महोत्सवः केवलं सांस्कृतिकोत्सवः न, अपितु तस्य विस्तीर्णोद्देशाः — शीतकालपर्यटनस्य प्रोत्साहनम्, पलायननिरोधः, रोजगारसृजनम्, सीमाप्रदेशीय–आर्थिकविकासः च — सफलतया साधिताः। अस्मिन् आयोजनम् स्थानीयशिल्पकाराणां, कृषकाणां, युवजनानां च कृते नूतनानां अवसरद्वाराणि उद्घाटितानि, येन “Vibrant Villages” इत्यस्य संकल्पनायाः सुदृढं आधारं प्राप्तम्।
अस्मिन् कार्यक्रमे मुख्यमन्त्री पुष्करसिंहधामी, मध्यकमाण्डस्य जनरल्–अफिसर्–कमाण्डिङ्–इन–चीफ् लेफ्टिनण्ट् जनरल् अनिन्द्यसेनगुप्त, उत्तरभारत–क्षेत्रस्य जनरल्–अफिसर्–कमाण्डिङ् लेफ्टिनण्ट् जनरल् डी.जी. मिश्र, तथा अनेकाः गण्यमानाः अतिथयः वरिष्ठ–सैन्याधिकारिणश्च गरिमामयेन सान्निध्येन उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता