मुख्यमन्त्रिण: डॉ॰ मोहनयादवस्य अद्य जलवायुपरिवर्तनसततविकास- वैचारिकसंगोष्ठ्यां सहभागिता भविष्यति
भोपालम्, 28 अक्तुबरमासः (हि.स.) मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः अद्य मङ्गलवासरे भोपालनगरस्य इन्दिरागान्धीनामकराष्ट्रीयमानव–संग्रहालयस्य वीथिसंकुले मुक्ताकाशरङ्गमञ्चे द्वादशवादने जलवायुपरिवर्तनसततविकास– वैचारिकसंगोष्ठ्यां मुख्यातिथिरूपेण भा
मुख्यमंत्री डॉ. यादव ने लोक आस्था के पावन पर्व 'छठ पूजा' पर  सभी नागरिकों को दी शुभकामनाएं


भोपालम्, 28 अक्तुबरमासः (हि.स.) मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः अद्य मङ्गलवासरे भोपालनगरस्य इन्दिरागान्धीनामकराष्ट्रीयमानव–संग्रहालयस्य वीथिसंकुले मुक्ताकाशरङ्गमञ्चे द्वादशवादने जलवायुपरिवर्तनसततविकास– वैचारिकसंगोष्ठ्यां मुख्यातिथिरूपेण भागं ग्रहीष्यति।

एषा संगोष्ठी राज्यनीति-आयोगेन, मध्यप्रदेशविज्ञानप्रौद्योगिकिपरिषद्–नामना च संस्थया, तथा पर्यावरणयोजनसमन्वयसंगठनस्य (ईपीसीओ) च संयुक्ततत्त्वावधानात् आयोज्यते। नर्मदासमग्र, सिकोइडिकोन, पैरवी इत्येताः संस्थाः तथा इन्दिरागान्धीराष्ट्रीयमानवसंग्रहालयः अपि सह–आयोजकः अस्ति। संगोष्ठी प्रातः सार्धनववादनात् आरभ्य सायं सार्धचतुर्वादनपर्यन्तं भविष्यति।

जनसम्पर्क–अधिकारी जूहीश्रीवास्तवनाम्नी सूचितवती— “अस्याः संगोष्ठ्याः प्रमुखः उद्देशः जलवायुपरिवर्तनस्य समाधानार्थं राष्ट्रेषु राज्यस्तरस्य भूमिकां विमृश्य व्यक्तिसमाजसर्वकारसहभागितया सततविकासाय अनुकूलं वातावरणं निर्मातुम् अस्ति।”

जलवायुसङ्कटं यत् जलवनभूमिजैवविविधता- मानवजीवनसम्बद्धेषु सर्वेषु क्षेत्रेषु प्रभावं करोति, तत् अद्यतनकाले गंभीरं संघर्षरूपं वर्तते। एषा संगोष्ठी नवम्बरमासे २०२५ तमे वर्षे ब्राज़ीलदेशे भविष्यति। संयुक्तराष्ट्रजलवायुपरिवर्तन- सम्मेलनस्य (CoP 30) पूर्वपरामर्शरूपेण कार्यं करिष्यति। अस्याः संगोष्ठ्याः ,विचारा: तस्मिन् अन्ताराष्ट्रीयमञ्चे प्रस्तुताः भविष्यन्ति। एवं मध्यप्रदेशः एतां चर्चाम् आरभ्य भारतस्य प्रथमं राज्यं जातम्।

सा अपि अवदत्— “सदाचरणमार्गेण जीवनम् ” इति विषयपरिकल्पनायाम् आधृतायां अस्यां संगोष्ठ्यां जलवायुपरिवर्तनसततविकास- सम्बद्धाः विविधाः विषयाः चर्चायाः विषयत्वेन नियोजिताः स्युः।

अत्र पर्यावरणं जीवनशैली च, जलवायुसततविकासयोः परस्परसम्बन्धस्य सुदृढीकरणम्, राष्ट्रीयस्तरे निर्धारितयोगदानानि, सततविकासलक्ष्यसाधने राज्यस्य भूमिकेति विषयाः विस्तरेण मन्थनीयाः भविष्यन्ति।

अस्मिन् आयोजन–कार्ये विषयविशेषज्ञाः, वैज्ञानिकाः, जनप्रतिनिधयः, सामाजिकसंस्थाः, शासन–अधिकारीणः, सञ्चारमाध्यम–प्रतिनिधयः च सहभागिनः भविष्यन्ति।

---

हिन्दुस्थान समाचार / अंशु गुप्ता