Enter your Email Address to subscribe to our newsletters

- एसआईआर इत्यस्य सूचनां दातुं अद्य आहूतं राजनैतिक दलानाम् उपवेशनम्
भोपालम्, 28 अक्टूबरमासः (हि.स.)।मध्यप्रदेशे अद्य मङ्गलवासरे विशेषगहनपुनरीक्षणकार्यक्रमः आरब्धः,यः फेब्रुवरि-मासस्य सप्तमे दिने मतदाता-सूच्याः अन्तिमप्रकाशनरूपेण समाप्तिं गमिष्यति।मध्यप्रदेशस्य मुख्यनिर्वाचनाधिकारी श्री संजीवकुमारझा इत्यनेन अस्य विशेषगहनपुनरीक्षणस्य विषये विस्तृताः दिशानिर्देशाः जारीकृताः।तेन उक्तं यत्— मान्यतान्वितराजनीतिकदलान् विस्तृतकार्यक्रमेण अवगतुम्,तथा च गहनपुनरीक्षणसंबन्धिनिषु अन्येषु विषयेषु चर्चार्थंअद्य सर्वेषु जिलेषु स्थायीसमित्याः (Standing Committee) सभाः आहूताः सन्ति।
हिन्दुस्थान समाचार