Enter your Email Address to subscribe to our newsletters

भोपालम्, 29 अक्तुबरमासः(हि.स.) — मध्यप्रदेशराज्यस्य शालाशिक्षाविभागेन अद्य बुधवासरे प्रदेशस्य शासनपोषितविद्यालयेषु नवमकक्षातः द्वादशकक्षा यावत् पठमानानां षल्लक्षाधिकविद्यार्थिनां मूल्यमापनं (बेंचमार्क–परीक्षणम्) क्रियते। एतत् मूल्यमापनं सामान्यपरीक्षा न, अपितु क्षमता–आधारितं मूल्यांकनम् अस्ति। अस्य प्रयोजनं तथ्यानां केवलं रट्टनं न, किन्तु विषयानां मूलाभिधारणासु तेषां बोधं, तेषां व्यावहारिकं प्रयोगशक्तिं च परीक्षितुम् अस्ति।
लोकशिक्षणसंचालनेन प्रदत्तया सूचनया ज्ञायते यत्, एषा सम्पूर्णा प्रक्रिया तृतीयपक्षेण निर्वर्त्यते, येन मूल्यांकनस्य निष्पक्षता विश्वसनीयता च सुनिश्चितुं शक्यते। अस्मिन्नेव कार्ये लोकशिक्षणसंचालनाय केन्द्रसर्वकारस्य “EdCIL India” इत्यस्याः संस्थायाः सहयोगं लभ्यते। अस्य मूल्यमापनस्य प्रमुखं प्रयोजनं प्रत्येकस्य विद्यार्थिनः वर्तमानं शैक्षणिकस्थितिं तस्य च अधिगमदुर्बलतानां वा अन्तरालानाम् अन्वेषणं कर्तुम् अस्ति। अस्यां परीक्षायां ज्ञातुं प्रयतिष्यते यत् विद्यार्थी वास्तवतः कियत् शिक्षितः, कियत् च अवगतम्।
अस्य मूल्यांकनस्य प्रमुखविशेषता एषा यत्, एतत् केवलं समस्यानाम् अन्वेषणेन न समाप्तं भवति, किन्तु मूल्यांकनफलेषु आधृत्य विद्यार्थिभ्यः तेषां दुर्बलतां निवारयितुं विशेष - उपचारात्मक - शिक्षणसामग्री सहायतां च दास्यन्ति। एतेन शिक्षण–अधिगमप्रक्रियायां परिष्कारः भविष्यति, प्रत्येकबालकाय च तस्य आवश्यकतानुरूपा शैक्षणिकसहायता लभ्यते।
लोकशिक्षणसंचालनस्य वरिष्ठः अधिकारी अवदत् यत्, एतत् मूल्यांकनं अस्माकं दत्तांश–आधारित–नीतिनिर्माणस्य दिशायां महत्त्वपूर्णं चरणं भविष्यति। अस्माभिः एतेन ज्ञातुं शक्यते यत् अस्माकं शिक्षणकार्यक्रमेषु कुत्र परिष्कारस्य आवश्यकता विद्यते, येन सर्वे विद्यार्थिनः न केवलं परीक्षासु, अपि तु जीवने अपि उत्तमं प्रदर्शनं करिष्यन्ति। एषा मूल्यांकनप्रक्रिया “ईक्विप्–लेप्” योजनान्तर्गतं प्रवर्तते, यस्मात् प्रदेशस्य शैक्षणिकपार्श्वभूमौ सकारात्मकपरिवर्तनस्य सम्भावना दृश्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani