मध्यप्रदेशः - “विश्वपक्षाघातदिवसस्य” अवसरम् उपलक्ष्य विशेषजनजागरूकताकार्यक्रमस्य आयोजनं कृतम्।
भोपालम्, 29 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराजधानीभोपालस्थिते शासकीये होम्योपैथिकचिकित्सामहाविद्यालयपरिसरे स्थापिता पक्षाघातविशेषज्ञएककायां आज बुधवासरे द्वितीयप्रहराद् द्विवादनात् आरभ्य “विश्वपक्षाघातदिवस”स्य अवसरम् उपलक्ष्य विशेषजागरूकताकार्यक्रमस
विश्व पक्षाघात दिवस (प्रतीकात्मक तस्वीर)


भोपालम्, 29 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराजधानीभोपालस्थिते शासकीये होम्योपैथिकचिकित्सामहाविद्यालयपरिसरे स्थापिता पक्षाघातविशेषज्ञएककायां आज बुधवासरे द्वितीयप्रहराद् द्विवादनात् आरभ्य “विश्वपक्षाघातदिवस”स्य अवसरम् उपलक्ष्य विशेषजागरूकताकार्यक्रमस्य आयोजनं भविष्यति। अस्य कार्यक्रमस्य मुख्योद्देशः पक्षाघातेन पीडितानां जनानां प्रति रोगजन्यसमस्याभिः, सीमाभिः च निवारणं कर्तुं सहाय्यं प्रदातुम् अस्ति।

वर्तमानकाले अल्पवयस्केषु अपि पक्षाघातस्य अधिकसंख्यकप्रकरणानि दृश्यन्ते, यस्य मूलकारणानि विकृतजीवनशैली, आहारे अनियमितताः, विविधव्यसना: च इत्येव।

जनसम्पर्काधिकारी राजेशदाहिमा इत्यनेन निवेदितं यत्, भारतसरकारस्य आयुषमन्त्रालयस्य सहयोगेन शासकीये होम्योपैथीचिकित्सामहाविद्यालये स्थापिता एषा विशेषज्ञएकका पक्षाघातपीडितानां सर्वेषां रोगिणां कृते उपचारसेवा प्रदानं करोति, या होम्योपैथी तथा फिजियोथेरेपी इत्युभाभ्यां माध्यमाभ्यां सम्पाद्यते। उभयोः विषययोः विशेषज्ञदलः प्रतिदिनं प्रातः नववादनात् आरभ्य द्वादशवादनपर्यन्तं स्वसेवाः प्रदानयन्ति।

लाभार्थिनः विस्तृतसूचनार्थं दूरभाषक्रमाङ्क ०७५५–२९९२९७० इत्यस्मिन् शासकीयकार्यदिवसेषु तथा नियतकार्यसमये सम्पर्कं कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani