पूर्व विधानसभा अध्यक्षो गिर्राज प्रसाद तिवारी 105 वर्षीयः निधनंगतः
जयपुरम्, 3 अक्टूबरमासः (हि.स.)।राजस्थानस्य पूर्वविधानसभाध्यक्षः भरतपुरप्रदेशस्य वरिष्ठनेता च गिर्राजप्रसादतिवारी इत्यस्य १०५ वर्षवयस्कस्य निधनं जातम्। तस्य निधनात् सर्वत्र प्रदेशे शोकतरङ्गः व्याप्यते। मुख्यमंत्री भजनलालशर्मा तस्य निधनहेतुः गभीरं शोकं
पूर्व विधानसभा अध्यक्ष गिर्राज प्रसाद तिवारी


जयपुरम्, 3 अक्टूबरमासः (हि.स.)।राजस्थानस्य पूर्वविधानसभाध्यक्षः भरतपुरप्रदेशस्य वरिष्ठनेता च गिर्राजप्रसादतिवारी इत्यस्य १०५ वर्षवयस्कस्य निधनं जातम्। तस्य निधनात् सर्वत्र प्रदेशे शोकतरङ्गः व्याप्यते। मुख्यमंत्री भजनलालशर्मा तस्य निधनहेतुः गभीरं शोकं व्यक्त्वा उक्तवान्—ईश्वरः दिवङ्गतात्मानं स्वश्रीचरणयोः स्थानं दद्यात्, शोकाकुलकुटुम्बाय च एतद् दुःखं सहनशक्तिं प्रदद्यात्।

मुख्यमंत्री अद्य प्रातः ११।३० वादनमेव हेलिकॉप्टरयात्रया भरतपुरं गत्वा अन्त्येष्टौ सहभागी भविष्यति। तस्य यात्रायाः कृते स्थानीयप्रशासनम् अपि आवश्यकतया तयारीः कृतवान्।

पूर्वमुख्यमंत्री अशोकगहलोतः अपि सामाजिकमञ्चे ‘एक्स्’ इत्यस्मिन् श्रद्धाञ्जलिं दत्वा लिखितवान्—तिवारिणः जीवनं संयमितं प्रेरणादायकं चासीत्। अतिवृद्धवयस्यापि तस्य जीवने उत्साहः तीक्ष्णस्मरणशक्तिश्च सर्वान् प्रभावितवन्तौ।

राज्यपालः हरिभाऊबागडे इत्यपि शोकं व्यक्त्वा दिवङ्गतात्मनः शान्तये, परिवारजनानां च धैर्याय प्रार्थनां कृतवान्।

विधानसभाध्यक्षः वासुदेवदेवनानी इत्युक्तवान्—स्वर्गीयतिवारी संसदीयपरम्पराणां गम्भीरः ज्ञाता आसीत्, तस्य च सार्वजनिकजीवनं निष्ठा-सरलता-जनसेवायै समर्पितम्।

गिर्राजप्रसादतिवारिणः अन्त्येष्टि: अद्य तस्य पैतृकग्रामे बिड्यारी-स्थानके बयाना-क्षेत्रे भविष्यति। परिवारजनाः, समर्थकाः, स्थानीयजनाः च तं प्रति अन्त्यं नमस्कारं करिष्यन्ति। राजकीय-सामाजिकसंघटनानां प्रतिनिधयः अपि श्रद्धाञ्जलिं दातुं आगमिष्यन्ति।

सः १९२० तमे वर्षे जातः। वकालत्कर्मणः आरभ्य, अनन्तरं राजनीतिक्षेत्रे प्रविष्टवान्। स्थानीयस्तरे प्रधानः, जिलाप्रमुखः चासीत्। द्विवारं विधायकत्वेन निर्वाचितः तिवारी जनसमस्याः सभायाम् उत्कटतया उद्घोषितवान्। सः पञ्चमी-अष्टमी विधानसभायाः सदस्यः आसीत्।

२९ मार्च् १९८५ तः ३१ जनवरी १९८६ पर्यन्तं राजस्थानविधानसभायाः उपाध्यक्षः, ३१ जनवरी १९८६ तः ११ मार्च् १९९० पर्यन्तं अध्यक्षः चासीत्। तिवारी राजस्थानविधानसभायाः गृहसमितेः विशेषाधिकारसमितेः च सदस्यः अपि आसीत्।

---------------

हिन्दुस्थान समाचार