Enter your Email Address to subscribe to our newsletters
भोपालम् , ३ अक्टूबरमासः (हि.स.)। मध्यप्रदेशे वृष्टेः निर्गमात् पूर्वं प्रचुरं जलपातं भविष्यति। प्रदेशे अग्रिम ४८ होरासु प्रचण्डवृष्टेः चेतावनी प्रदत्ता। जबलपुरेण सहितं प्रदेशस्य सप्तदशजनपदेषु अद्य शुक्रवारदिने अतिवृष्टेः सम्भावना अस्ति। ऋतुविभागेन रीवा, मऊगञ्ज, सीधी, सिंगरौली इत्येषु चतुर्जनपदेषु अग्रिम- २४ होरासु अष्टाङ्गुलपरिमितं जलपातं सम्भविष्यति इति अनुमानम्। ४ अक्तुबरतिथौ अपि शक्तिशालिसंविधानस्य सक्रियता स्थास्यति।
ऋतुविभागस्य अनुसारं देशस्य पूर्वपश्चिमभागयोः अवसाद: गहन-अवसादश्च च सक्रिय: अस्ति। द्वौ च चक्रवात-परिसरण-तन्त्रौ अपि सक्रियौ स्तः। तयोः एकः चक्रवाततन्त्रः प्रदेशस्य पूर्वभागे वर्तमानः, यस्य प्रभावः शुक्रवारादारभ्य दृश्यः भविष्यति। अग्रिमे ४८ होरासु अतिवृष्टेः चेतावनी दत्ता। विभागेन रीवा, मऊगञ्ज, सीधी, सिंगरौली इत्येषु अति-वृष्टेः ऑरेंज-अलर्ट प्रदत्तः। जबलपुरम् ,सतना, पन्ना, मैहर:, दमोह:, कटनी, उमरिया, शहडोल:, अनूपपुर:, डिण्डोरी, मण्डला, नरसिंहपुर:, छिन्दवाडा इत्येषु अतिवृष्टेः यलो-अलर्ट अपि। रविवासरादारभ्य संविधाने दुर्बलता भविष्यति, तथापि क्वचिद् लघुवृष्टिः अपि सम्भाव्यते।
पूर्वं दशहरातिथौ अपि प्रदेशे वृष्टिचक्रः प्रवर्तमानः आसीत्। नर्मदापुरे अर्धाङ्गुलातिरिक्ता वृष्टिः अभवत्। दतिया-नरसिंहपुरयोः अपि अर्धाङ्गुलवृष्टिः जातः। भोपालम्, इन्दौर:, छतरपुरस्य नौगांव:, सागर:, टीकमगढ: इत्यादिषु क्षेत्रेषु अपि लघुवृष्टिः जाता। प्रदेशस्य द्वादश जनपदात् वृष्टिः निर्गता। अस्मिन् वर्षे गुनायां सर्वाधिकं जलपातः जातः — ६५.६ अङ्गुलपर्यन्तं। मण्डला-रायसेनयोः ६२ अङ्गुलातिरिक्तः, श्योपुर-अशोकनगरयोः ५६ अङ्गुलाधिकः च जलपातः अभवत्।
शाजापुर:, खरगोन:, खण्डवा, बडवानी, धार इत्येते पञ्च जनपदाः अल्पवृष्टियुक्ताः आसन्। शाजापुरे २८.९ अङ्गुलाः, खरगोन-क्षेत्रे २९.६ अङ्गुलाः, खण्डवायाम् ३२ अङ्गुलाः, बडवानीयां ३३.५ अङ्गुलाः, धारे ३३.६ अङ्गुलपरिमितः जलपातः अभवत्।
---
हिन्दुस्थान समाचार / अंशु गुप्ता