Enter your Email Address to subscribe to our newsletters

बक्सरः, 30 अक्टूबरमासः (हि.स.)।बिहारविधानसभायाः निर्वाचनम् अधुना प्रवर्तमानम् अस्ति। अस्मिन् निर्वाचनकाले मगध–शाहाबादप्रदेशौ अत्यन्तं महत्वपूर्णौ प्रदेशौ स्तः, यत्र एनडीएदलस्य विजयाय उत्तरप्रदेशराज्यस्य अनेकाः प्रभावशालिनः भारतीयजनतापक्षस्य नेतारः दायित्वानि प्राप्तवन्तः। तेषु प्रमुखः उत्तरप्रदेशस्य परिवहनमन्त्री श्रीमान् दयाशङ्करसिंहः अस्ति। तेन आत्मविश्वासेन उक्तं यत् अस्यवारं मगध–शाहाबादप्रदेशयोः ३५–४० आसनेषु एनडीएदलस्य विजयः भविष्यति।
चुनावकौशले निपुणः उत्तरप्रदेशपरिवहनमन्त्री श्रीमान् दयाशङ्करसिंहः एनडीएप्रत्याशिनां कृते अहर्निशं सक्रियः अस्ति। सः दलस्य शीर्षनेतृणां सभासु एनडीएप्रत्याशिनां समर्थनाय जनमतनिर्माणस्य रणनीतिं रचयति। गुरुवासरे हिन्दुस्थानसमाचारसंस्थायै प्रदत्ते साक्षात्कारसमये सः अवदत्— “तेजस्वीयादवः केवलं एम्–वाई (मुस्लिम–यादव) समीकरणस्य आश्रयेण मुंगेरीलालस्य स्वप्नं पश्यति। परन्तु एनडीएदलस्य पक्षे सर्वाः बिहारराज्यस्य जातयः एकत्र समागताः सन्ति।”
अस्य कारणं सः निर्दिशति—प्रधानमन्त्री नरेन्द्रमोदिना गतदशवर्षेषु बिहारराज्याय महान्तः महान्तः प्रकल्पाः दत्ताः, येन राज्यं शीघ्रं विकासमार्गे प्रविष्टम्। नितीशकुमारस्य मद्यनिषेधनीतिः, स्त्रीणां खातेषु धनप्रेषणं च—एते निर्णयाः बिहारस्य नारीणां जीवनम् अत्यन्तं परिवर्तितवन्तः। सः उक्तवान् यत् नितीशसरकारेण अप्रतिमं विद्युत्सेवनं प्रदत्तम् अस्ति।
दयाशङ्करसिंहः अवदत्—“नितीशकुमारः बिहारराज्यं लालू–राबडीकाले जातात् गुन्डाराजात् उद्धृत्य शान्तिसंवृद्धिपथं प्रति नीतवान्। एतेन परिवर्तनैः जनाः सन्तुष्टाः भवन्ति। अपरं पक्षे आरजेडीदलेन नेतृकृतः महागठबन्धनः दिशाहीनः अस्ति, तत्र वैचारिकैक्यं नास्ति। येषां शासनकाले आपातकाले लालूयादवेन लाठ्याः स्वीकृताः, तैः एव कांग्रेसदलैः पुनः संधिः कृतः। यः मुकेशसहनी नामकः तेषां गठबन्धनस्य अङ्गः आसीत्, तस्मै एव अद्य प्रत्याशित्वं न प्रदत्तम्। एतादृशं विरोधाभासपूर्णं गठबन्धनं बिहारजनता निःसंशयं परित्यक्ष्यति।”
बक्सरप्रदेशे प्रवासं कुर्वन् दयाशङ्करसिंहः अवदत्—“वयं ग्रामे ग्रामे भ्रमामः। अस्यवारं मगध–शाहाबादप्रदेशयोः ४८ आसनेषु ३५ अथवा तस्मात् अधिकाः आसनाः एनडीएपक्षे आगमिष्यन्ति। एते एव द्वौ प्रदेशौ बिहारराज्यस्य एनडीएसरकारस्य केन्द्रीयधुर्या भविष्यतः।”
सः अवदत्—“गतनिर्वाचने शाहाबादप्रदेशे केवलं द्वे एव आसने एनडीएदलेन प्राप्ते आस्ताम्। तासु अपि आरा–तरारी, बक्सर–रामगढ इत्येतयोः उपनिर्वाचने एनडीएदलस्य विजयः अभवत्।”
---------------
हिन्दुस्थान समाचार