Enter your Email Address to subscribe to our newsletters



भाेपालम्, 30 अक्टूबरमासः (हि.स.)।पूर्वकेंद्रीयमन्त्री प्रमोदमहाजनः, मध्यप्रदेशस्य पूर्वराज्यपालः भाईमहावीरश्च इत्येतयोः अद्य (गुरुवासरे) जन्मदिवसं स्मरन्ति। तस्मिन्नेव दिवसे आर्यसमाजसंस्थापकः महर्षिः स्वामी दयानन्दसरस्वती च पुण्यतिथिम् आचर्यते। अस्मिन् अवसरे मुख्य मन्त्री डा० मोहनयादवः एताः तिस्रः महत्यः विभूतयः स्मरन् सप्रणामं कृतवान्।
मुख्यमन्त्री डा० यादवः सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् पूर्वकेंद्रीयमन्त्री प्रमोदमहाजनं प्रति लिखितवान्—
“पूर्वकेंद्रीयमन्त्री, श्रद्धेयः प्रमोदमहाजनजी, भवतः जन्मदिने अहं सादरं नमनं करोमि। संगठननिष्ठया, विकासनिश्चयेन, जनसेवायां च अखण्डप्रयत्नेन भवान् युवानां कृते नूतनां दिशां प्रदत्तवान्। जनसेवायै लोककल्याणाय च समर्पितं भवतः जीवनं अस्मान् कर्तव्यपथे निरन्तरं प्रेरयति।”
अन्यस्मिन् सन्देशे सः मध्यप्रदेशस्य पूर्वराज्यपालं भाईमहावीरं प्रति लिखितवान्—
“मध्यप्रदेशस्य पूर्वराज्यपालः भाईमहावीरजी, भवतः जन्मदिने सादरं नमनं करोमि। भवतः आदर्शाः कर्मनिष्ठा च देशसेवायाः मार्गे सदैव प्रेरणास्रोतः स्युः।”
तथा स्वामीदयानन्दसरस्वतीं प्रति पुण्यतिथ्यां श्रद्धाञ्जलिं दत्तवान्—
“आर्यसमाजस्य संस्थापकः परमश्रद्धेयः स्वामीदयानन्दसरस्वतीजी, भवतः पुण्यतिथौ अहं सादरं नमनं करोमि। वेदानां ज्ञानद्वारा भवान् मानवकल्याणस्य नूतनां दिशां प्रदत्तवान्, बालविवाह-सतीप्रथा-आदिकाः कुरीत्यः समाजात् निवारितवान्। भवतः विचाराः सदैव प्रासङ्गिकाः भविष्यन्ति।”
---------------
हिन्दुस्थान समाचार