Enter your Email Address to subscribe to our newsletters



स्थानीयउद्योगान् सुदृढीकरोति चेत् भारतं सशक्तं भविष्यति – सञ्जयगुप्तः।
प्रयागराजम्, ३० अक्टूबरमासः (हि.स.)। भारतम् आत्मनिर्भरं कर्तुं नारीणां प्रमुखा भूमिका अस्ति, तस्मात् ताः अग्रे आगन्तुम् अर्हन्ति इति उक्तवती मुख्यातिथिरूपेण उत्तरप्रदेशराज्यनारी-आयोगस्य सदस्या डॉ॰ प्रियङ्का मौर्या। सा भारतीयजनतापक्षस्य कार्यालये (सिविललाइन्) आयोजिते भारतीयजनतामहिलादलेन महिला-सम्मेलने भाषमाणा आसीत्।
सा विदेशोत्पन्नवस्तूनां दोषान् स्वदेशोत्पन्नवस्तूनां च गुणान् निर्दिश्य स्वदेशवस्तूनां श्रेष्ठतां व्यजनीत्। आत्मनिर्भरता एव सशक्तत्वस्य प्रमाणम् इति उक्तवती। यदि हिन्दुस्थानं सशक्तं भविष्यति तर्हि देशस्य प्रत्येकः जनः आर्थिकरूपेण बलवान् भविष्यति। एषैव शक्ति भारतं विश्वस्य अग्रगण्यदेशं करिष्यति। भारतं सनातनसंस्कृतिदेशः, यः सर्वेषां जनानां जीवनमार्गं प्रदर्शितवान् इति उक्तवती। यदि साहसम् अस्ति, देशजनानां समर्थनं सहयोगश्च अस्ति, तर्हि भारतं उच्चशिखरं प्राप्तुं कश्चन निवारयितुं न शक्नोति। अस्माकं प्रधानमन्त्रि श्रीनरेन्द्रमोदी केवलं देशस्य न, अपि तु नारीशक्तेः सशक्तीकरणे अपि महत्त्वपूर्णां भूमिका निभवन्ति इति उक्तवती।
भारतीयजनतापक्षस्य महानगराध्यक्षः सञ्जयगुप्तः उक्तवान् — “स्वदेश्यङ्ग्रहणं केवलं घोषवाक्यं नास्ति, अपितु भारतं वित्तीयदृष्ट्या सुदृढं कर्तुं उपायः अस्ति। स्थानीयउद्योगान् सशक्तीकरोति चेत्, तेषां समर्थनं लभ्यते चेत्, तर्हि रोजगारस्य अवसराः वर्धन्ते, यत् आत्मनिर्भरभारतस्य निमित्तं अत्यावश्यकम्। यः देशः स्वबलात् स्थितः स एव सशक्तः भवति।” इति उक्तवान्।
कार्यक्रमस्य संचालनं दुर्गेशनन्दिन्या कृतम्। आत्मनिर्भरभारत-अभियानस्य अन्तर्गतं प्रयागराजमहिलादलेन भारतीयजनतापक्षकार्यालये उत्साहेन सम्पन्नं महिला-सम्मेलनम्। सर्वा उपस्थिताः महिलाः स्वदेशवस्त्वङ्ग्रहणस्य संकल्पं अपि कृतवन्त्यः।
अस्मिन् अवसरे चन्द्रा अहलूवालिया, पूजापाण्डेया, वन्दनासिंह, शिखारस्तोगी, अनुजकुशवाहा, रीतावर्मा, नीलमत्रिपाठी, कल्पनाशर्मा, शोभिताश्रीवास्तवः, आभासिंह, दीपमालाश्रीवास्तवः, प्रवक्ता पवनश्रीवास्तवः, सरोजगुप्ता, विवेकमिश्रः, दीपद्विवेदी, विजयपटेलः, विजयश्रीवास्तवः इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता